SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः ततस्तयोविलापैरप्यलिप्तमनसि प्रभौ । आवासितं दुराचारः स्कन्धावारमकल्पयत् ।।६२।। तत्रानासाद्य दृषदं सूदः सादर ओदने । चुल्लीपदे प्रभोः पादौ कृत्वा स्थाली न्यवेशयत् ।।६३।। तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्तुगिरेरिव दवानल: ।।६४ ।। तप्तस्यापि प्रभोः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्वणं दारुणक्वणम् ।।६५ । । पक्वणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जंघयोश्च क्षुद्रपक्षिपंजराणि व्यलम्बयत् ।।६६।। खगैश्चंचुनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा छिद्रशताकीर्णा तत्पञ्जरनिभाभवत् ।।६७ ।। तत्राप्यसारतां प्राप्ते पक्वणे पक्कपत्रवत् । उत्पादितमहोत्पातं खरवातमजीजनत् ।।६८।। अन्तरिक्षे महावृक्षांस्तृणोत्क्षेपं समुत्क्षिपन् । विक्षिपन् पांशुविक्षेपं दिक्षु च ग्रावकर्करान् ।।६९ ।। सर्वतो रोदसीगर्भं भस्रापूरं च पूरयन् । उत्पाट्योत्पाट्य वातोऽसौ भगवन्तमपातयत् ।।७० । ।युग्मम्।। तेनापि खरवातेनाऽपूर्णकामो विनिर्मिमे । घुसत्कुलकलंकोऽसौ द्राक् कलंकलिकाऽनिलम् ।।७१।। भूभृतोऽपि भ्रमयितुमलंकर्मीणविक्रमः । भ्रमयामास चक्रस्थमृत्पिंडमिव स प्रभुम् ।।७२।। भ्रम्यमाणोऽर्णवावर्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि जहौ प्रभुः ।।७३ ।। वज्रसारमनस्कोऽयं बहुधापि कदर्थितः । न क्षुभ्यति कथमहं भग्नगर्यामि तां सभाम् ।।७४ ।। तदस्य प्राणनाशेन ध्यानं नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्रं सुराधमः ।।७५ ।। अहाय तदयोभारसहस्रघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ।।७६।। पृथिवीं संपुटीकर्तुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्रं स प्रचिक्षेपोपरि प्रभोः ।।७७ ।। ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः करालयत् । तत्पपात जगद्भर्तयोर्वानल इवार्णवे ।।७८ ।। कुलक्षितिधरक्षोदक्षमस्यास्य प्रहारतः । ममज्जाऽऽजानु भगवानन्तर्वसुमतीतलम् ।।७९।। एवं भूतेऽपि भगवानशोचदिदमस्य यत् । तितारयिषवो विश्वं वयं संसारकारणम् ।।८।। कालचक्रहतोऽप्येष प्रपेदे पंचतां न यत् । अगोचरस्तदत्राणामुपायः क इहापरः ।।८१।। अनुकूलैरुपसर्गः क्षुभ्येद्यदि कथंचन । इति बुद्ध्या विमानस्थः स पुरोऽस्थादुवाच च ।।८२।। सद्यः प्रकाशमानाशं क्रोशत्खगकुलाकुलम् । प्रातःकालमकालेऽपि दर्शयामास दुष्टधीः ।।८३।। तां च दैवीमसौ मायां मन्यमानो महामनाः । न मुमोच विभुर्ध्यानमभिग्रहकृताग्रहः ।।८४ ।। ताडंकहारकेयूरकिरीटद्योतिताम्बरः । तत्संहृत्य विमानस्थः स पुरोऽस्थादुवाच च ।।८५।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy