________________
१३२
आतुरप्रत्याख्यानप्रकीर्णकम्
प्रलयाग्निस्फुलिंगाभैस्तप्ततोमरदारुणैः । तेऽभिन्दन् भगवद्देहं लांगूलांकुटकण्टकैः ।।३७ ।।
तैरप्यनाकुले नाथे कूटसंकल्पसंकुलः । सोऽनल्पान् कल्पयामास नकुलान् दशनाकुलान् ।।३८ ।। खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । खण्डखण्डैस्रोटयन्तो नांसखण्डान्यपातयन् ।।३९।। तैरप्यकृतकृत्योऽसौ यमदोर्दण्डदारुणान् । अत्युत्कटफटाटोपान् कोपात्प्रायुंक्त पन्नागान् ।।४०।। आशिरः पादमत्यर्थं महावीरं महोरगाः । अवेष्टन्त महावृक्षं कपिकच्छूलता इव ।।४१।। प्रजहुस्ते तथा तत्र स्फुटन्ति स्म फटा यथा । तथा दशन्ति स्म यथाऽभज्यन्त दशना अपि ।।४२।। उद्वान्तगरलेष्वेषु लम्बमानेषु रज्जुवत् । स वज्रदशनानाशु मूषिकानुदपीपदत् ।।४३।। स्वाम्यंगं खनकाश्चख्नु खैर्दन्तैर्मुखैः करैः । मोमूत्र्यमाणास्तत्रैव क्षते क्षारं निचिक्षिपुः ।।४४ ।। तेष्वप्यकिञ्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुशलं हस्तिरूपं ससर्ज सः ।।४५।। सोऽधावत् पादपातेन मेदिनीं नमयन्निव । उडून्युदस्तहस्तेन नभस्तस्रोटयन्निव ।।४६।। कराग्रेण गृहीत्वा च दुवरिण स वारणः । दूरमुल्लालयामास भगवन्तं नभस्तले ।।४७ ।। विशीर्य कणशो गच्छत्वसाविति दुराशयः । दन्तावुदस्य स व्योम्नः पतन्तं स्म प्रतीच्छति ।।४८।। पतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्रकठिनात्समुत्तस्थुः स्फुलिंगकाः ।।४९।। न शशाक वराकोऽसौ कर्तुं किंचिदपि द्विपः । यावत्तावत्सुरश्चक्रे करिणीं वैरिणीमिव ।।५० ।। अखण्डतुण्डदन्ताभ्यां भगवन्तं बिभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च ।।५१।। करेणो रेणुसाद्भूते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् ।।५२।। ज्वालाजालाकुलं व्यात्तव्यायतं वक्त्रकोटरम् । अभवद्भीषणं तस्य वह्निकुण्डमिव ज्वलत् ।।५३।। यमौकस्तोरणस्तम्भाविव प्रोत्तंभितौ भुजो । अभूच्च तस्य जंघोरु तुंगं तालद्रुमोपमम् ।।५४।। स साट्टहासः फेत्कुर्वन् स्फूर्जत्किलकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत् ।।५५ ।। तस्मिन्नपि हि विध्याते क्षीणतैलप्रदीपवत् । व्याघ्ररूपं क्रुधा ध्मातः शीघ्रं चक्रे स निघृणः ।।५६।। अथ पुच्छच्छटाच्छोटैः पाटयन्निव मेदिनीम् । बूत्कारप्रतिशब्दैश्च रोदसी रोदयन्निव ।।५७ ।। दंष्ट्राभिर्वज्रसाराभिर्नखरैः शूलसोदरैः । अव्यग्रं व्यापिपर्ति स्म व्याघ्रो भुवनभर्तरि ।।५८ ।। तत्र विच्छायतां प्राप्ते दवदग्ध इव द्रुमे । सिद्धार्थराजरूपं स विचक्रे विबुधाधमः ।।५९।। किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रव्रज्यां मुञ्च माऽस्माकं प्रार्थनामवजीगणः ।।६० ।। वार्धके मामशरणं त्यक्तवान्नन्दिवर्धनः । विकृता त्रिशला चैवं विललाप मुहुर्मुहुः ।।६१ । ।युग्मम्।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org