SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ खण्ड: - २ दृष्टान्तसमुच्चयः १३१ अमरैरसुरैर्यक्षै रक्षोभिरुगैर्नरैः । त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि ।। १२ ।। इत्याकर्ण्य वचः शाक्रं शक्रसामानिकः सुरः । ललाटपट्टघटितभ्रुकुटीभंगभीषणः । । १३ ।। कंपमानाधरः कोपाल्लोहितायतलोचनः । अभव्यो गाढमिथ्यात्वसंगः संगमकोऽवदत् ।।१४।। मर्त्यः श्रमणमात्रोऽयं यदेवं देव वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् ।।१५।। देवैरपि न चाल्योऽयं ध्यानादित्युद्भटं प्रभो ! । कथं धार्येत हृदये धृतं वा प्रोच्यते कथम् ? ।।१६।। रुद्धान्तरिक्षः शिखरैर्मूलै रुद्धरसातलः । यैः किलोदस्यते दोष्णा सुमेरुर्लोष्टुलीलया ।। १७ ।। सकुलाचलमेदिन्याः प्लावनव्यक्तवैभवः । येषामेष सुगंडूषंकरश्च मकराकरः ।। १८ ।। अप्येकभुजदंडेन प्रचण्डां छत्रलीलया । उद्धरन्ति सहानेकभूधरां ये वसुन्धराम् ।।१९।। तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासंपन्न सिद्धीनां मर्त्यमात्रं कियानयम् ।।२०।। एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाहत्योदस्थादास्थानमण्डपात् ।।२१।। अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखंडितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः ।।२२।। ततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकृतिदुरालोको भयापसरदप्सराः ।।२३।। विकटोरः स्थलाघातपुञ्जितग्रहमण्डलः । स पापस्तत्र गतवान् यत्रासीत्परमेश्वरः ।।२४।। युग्मम् ।। निष्कारणजगद्बन्धुं निराबाधं तथा स्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ।।२५।। गीर्वाणपांसनः पांसुवृष्टिं दुष्टोऽतनिष्ट सः । अकांडघटितारिष्टामुपरिष्टाज्जगत्प्रभोः ।।२६।। विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांसुपूरेण सर्वांगीणं जगत्प्रभोः ।।२७।। समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांसुभिः । यथा समभवत् स्वामी निःश्वासोच्छ्वासवर्जितः ।।२८।। तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलश्चलति किं गजैः परिणतैरपि ।। २९ ।। अपनीय ततः पांशुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्वांगपीलिकाः ।। ३० ।। प्राविशन्नेकतोऽङ्गेषु स्वैरं निर्ययुरन्यतः । विध्यन्त्यस्तीक्ष्णतुण्डाग्रैः सूच्यो निवसनेष्विव ।। ३१ ।। निर्भाग्यस्येव वाञ्छासु मोघीभूतासु तास्वपि । स दंशान् रचयामास नाकृत्यान्तो दुरात्मनाम् ।।३२।। तेषामेकप्रहारेण रक्तैर्गोक्षीरसोदरैः । क्षरिद्भिरभवन्नाथः सनिर्झर इवाद्रिराट् ।।३३ ।। तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः ।। ३४ ।। शरीरे परमेशस्य निमग्नमुखमण्डलाः । ततस्ताः समलक्ष्यन्त रोमालीव सहोत्थिता ।। ३५ ।। ततोऽप्यविचलच्चित्ते योगवित्ते जगद्गुरौ । स महावृश्चिकांश्चक्रे ध्यानवृश्चननिश्चयी ।। ३६ ।। I Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy