________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१२९
जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ।।७५ ।। रामाक्रांतपुराद्राज्ञी कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेणीवागमत्तापसाश्रमम् ।।७६ ।। कृपाधनैर्भूगृहान्तः सा निधाय निधानवत् । तपस्विंभिर्गोप्यते स्म क्रूरात् परशुरामतः ।।७७ ।। चतुर्दशमहास्वप्नसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमिं सुखेनाभूत् सुभूमो नामतस्ततः ।।७८ ।। क्षत्रियो यत्र यत्रासीत्तत्र तत्राप्यदीप्यत । पशुः परशुरामस्य कोपाग्निरिव मूर्तिमान् ।।७९ ।। रामोऽगादन्यदा तत्राश्रमे पशुश्च सोऽज्वलत् । क्षत्रं चासूचयद्धूम इव धूतध्वजं तदा ।।८।। किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ।।८१।। रामोऽप्यमर्षानिःक्षत्रां सप्तकृत्वो वसुंधराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ।।८२।। क्षुण्णक्षत्रियदंष्ट्राभी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ।।८३।। रामः पप्रच्छ नैमित्तानयेधुर्मे कुतो वधः । सदा वैरायमाणा हि शंकंते परतो मृतिम् ।।८४ ।। यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोक्ष्यतेऽमूस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ।।८५ ।। रामोऽथ कारयामास सत्रागारमवारितम् । धुरि सिंहासनं तत्रास्थापयत् स्थालमग्रतः ।।८६।। अथाश्रमे स्वर्णवर्णोऽष्टाविंशतिधनूनतिः । गतोऽङ्गणद्रुम इव सुभूमो वृद्धिमद्भुताम् ।।८७ ।। विद्याधरो मेघनादोऽन्येवूनैमित्तिकानिति । परिपप्रच्छ पद्मश्रीः कन्या मे कस्य दीयताम् ।।८८।। तस्या वरं वरीयांसं सुभूमं तेऽप्युपादिशन् । दत्वा कन्यां ततस्तस्मै तस्यैवाभूत् स सेवकः ।।८९।। कूपभेक इवानन्यगोपः पप्रच्छ मातरम् । सुभूमः किमियानेव लोकोऽयमधिकोऽपि किम् ।।९० ।। माताप्यचीकथदथो लोकोऽनन्तो हि वत्सक । मक्षिकापदमात्रं हि लोकमध्येऽयमाश्रमः ।।९१ ।। अस्मिँल्लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कृतवीर्योऽभूत्तत्र राजा महाभुजः ।।९२।। हत्वा ते पितरं रामो राज्यं स्वयमशिश्रियत् । क्षितिं निःक्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ।।१३।। तत्कालं हास्तिनपुरे सुभूमो भौमवज्ज्वलन् । जगाम वैरिणो क्रुद्धः क्षात्रं तेजो हि दुर्धरम् ।।९४ ।। तत्र सत्रे ययौ सिंह इव सिंहासनेऽविशत् । दंष्ट्रास्ताः पायसीभूताः सुभुजो बुभुजे च सः ।।१५।। उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जनिरे मेघनादेन व्याघेण हरिणा इव ।।९६।। प्रस्फुरदंष्ट्रिकाकेशो दशनैरधरं दशन् । ततो रामः क्रुधा कालपाशाकृष्ट इवाययौ ।।९७ ।। रामेण मुमुचे रोषात् सुभूमाय परश्वधः । विध्यातस्तत्क्षणं तस्मिन् स्फुलिंग इव वारिणि ।।९८ ।। शस्त्राभावात् सुभूमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रीबभूव तत्सद्यः किं न स्यात् पुण्यसम्पदः ।।९९।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org