SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १२८ आतुरप्रत्याख्यानप्रकीर्णकम् साक्षीकृत्य ज्वलदग्निं जमदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ।।५० ।। ऋतुकाले स ऊचे तां चरुं ते साधयाम्यहम् । यथा ब्राह्मणमूर्धन्यो धन्य उत्पद्यते सुतः ।।५१।। सोवाच हास्तिनपुरेऽनंतवीर्यस्य भूपतेः । पत्न्यस्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् ।।५२ ।। ब्राह्मं सधर्मचारिण्यै क्षात्रं तज्जामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् ।।५३।। साचिन्तयदहं तावदभूवमटवी मृगी । माभून्मादृक् सुतोऽपीति क्षात्रं चरुमभक्षयत् ।।५४ ।। सादाद्ब्राह्मं चरुं स्वस्र जातौ च तनयौ तयोः । तत्र रामो रेणुकायाः कृतवीर्यश्च तत्स्वसुः ।।५५।। विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारकी । विद्या तस्यातिसाराा विस्मृताकाशगामिनी ।।५६।। रामेण प्रतिचरितो भेषजाद्यैः स्वबन्धुवत् । रामाय सेवमानाय विद्यां पारशवीं ददौ ।।५७।। मध्येशरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत्ततः प्रभृति विश्रुतः ।।५८।। अन्येद्युः पतिमापृच्छय रेणुकोत्कंठिता स्वसुः । जगाम हास्तिनपुरे प्रेम्णो दूरे न किंचन ।।५९।। श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनंतवीर्यो रमयत् कामः कामं निरंकुशः ।।६० ।। ऋषिपत्न्या तया राजाहल्ययेव पुरंदरः । अन्वभूच्च यथाकामं संभोगसुखसंपदम् ।।६१।। अनंतवीर्यात्तनयो रेणुकायामजायत । ममतायामिवोतथ्यः सधर्मिण्यां बृहस्पतेः ।।६२।। तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते ।।६३ ।। तां पुत्रसहितां वल्लीमकालफलितामिव । संजातकोपः परशुरामः परशुनाच्छिदत् ।।६४ ।। तद्भगिन्या स वृत्तांतोऽनंतवीर्यस्य शंसितः । कोपमुद्दीपयामास कृशानुमिव मारुतः ।।६५।। ततश्चावार्यदोवीर्योऽनंतवीर्यो महीपतिः । जमदग्न्याश्रमं गत्वाभांक्षीन्मत्त इव द्विपः ।।६६।। तापसानां कृतत्रासः समादाय गवादि सः । मंदं मंदं परिक्रामन् केसरीव न्यवर्तत ।।६७।। त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत् साक्षादिवान्तकः ।।६८ ।। सुभटग्रामसंग्रामकौतुकी जमदग्निजः । पशुना खंडशश्चक्रे दारुवद्दारुणेन तम् ।।६९।। राज्ये निवेशयांचक्रे तस्य प्रकृतिपूरुषैः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः ।।७० ।। तस्याभवच्च महिषी तारा तारविलोचना । बुभुजाते च तौ भोगानविघ्नममराविव ।।७१।। भूपालराजजीवोऽपि स्वमायुः परिपूर्य सः । महाशुक्रात् परिच्युत्य ताराकुक्षाववातरत् ।।७२।। कृतवीर्योऽन्यदा मातुर्मुखाच्छ्रुत्वा पितुः कथाम् । आदिष्टाहिरिवागत्य जमदग्निममारयत् ।।७३ ।। रामः पितृवधक्रुद्धो द्राग्गत्वा हस्तिनापुरे । अमारयत्कृतवीर्यं किं यमस्य दवीयसि ।।७४ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy