________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१२७
लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणास्त्रे रणे यो हि शूरः शूरः स उच्यते ।।२५।। तस्मिन्नचलिते सत्त्वात् साधु साध्विति वादिनौ । तौ गतौ तापसोत्कृष्टं जमदग्निं परीक्षितुम् ।।२६।। न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वल्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् ।।२७।। तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ।।२८।। चटकश्चटकामूचे यास्यामि हिमवद्गिरौ । अन्यासक्तो नेष्यसि त्वमिति तं नाप्यमस्त सा ।।२९।। गोघातपातकेनाहं गृह्ये नायामि चेत्प्रिये । इत्युक्तशपथं भूयश्चटकं चटकाब्रवीत् ।।३०।। ऋषेरस्यैनसा गृह्ये शपेथा इति चेत् प्रिय । विसृजामि तदैव त्वां पंथानः सन्तु ते शिवाः ।।३१।। इत्याकर्ण्य वचः क्रुद्धो जमदग्निमुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पक्षिणौ ।।३२।। आचचक्षे ततः सोऽपि कुर्वाणे दुष्करं तपः । उष्णरश्माविव ध्वांतमाः पापं मयि कीदृशम् ।।३३।। अथर्षि चटकोवाच मा कुपस्ते मुधा तपः । अपुत्रस्य गतिर्नास्तीत्यश्रौषीस्त्वं न किं श्रुतिम् ।।३४ ।। तथेति मन्यमानस्तु मुनिरेवमचिन्तयत् । ममाकलत्रपुत्रस्य प्रवाहे सूत्रितं तपः ।।३५।।। तं दृष्ट्वा क्षुभितं ध्यायन् भ्रमितस्तापसैरिति । जज्ञे धन्वन्तरिः श्राद्धः प्रत्येति प्रत्ययान्न कः ।।३६।। बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च संप्राप पुरं नेमिककोष्टकम् ।।३७।। - जितशत्रु महीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां गौरी हर इवागमत् ।।३८ ।। कृत्वाभ्युत्थानमुर्वीशः प्रांजलिस्तमभाषत । किमर्थमागता यूयं ब्रूत किं करवाण्यहम् ।।३९।। कन्यार्थमागतोऽस्मीति मुनिनोक्तेऽब्रवीनृपः । मध्ये शतस्य कन्यानां त्वां येच्छति गृहाण ताम् ।।४० ।। स कन्यान्तः पुरे गत्वा जगाद नृपकन्यकाः । धर्मपत्नी मम काचिद्भवतीभ्यो भवत्विति ।।४१।। जटिलः पलितः क्षामो भिक्षाजीवी वदन्निदम् । न लज्जसे त्वमिति ताः कृतकृत्कारमूचिरे ।।४२ ।। समीरण इव क्रुद्धो जमदग्निर्मुनिस्ततः । अधिज्येष्वासयष्ट्याभाः कन्याः कुब्जीचकार ताः ।।४३।। अथांगणे रेणुपुंजै रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवीच्च ताम् ।।४४ ।। स तस्या इच्छसीत्युक्त्वा मातुलिंगमदर्शयत् । तया प्रसारितः पाणिः पाणिग्रहणसूचकः ।।४५।। तां मुनिः परिजग्राह रोरो धनमिवोरसा । सार्धं गवादिभिस्तस्य ददौ च विधिवन्नृपः ।।४६।। स श्यालीः स्नेहसंबंधादेकोनं कन्यकाशतम् । सज्जीचक्रे तपःशक्त्या धिङ्मूढानां तपोव्ययः ।।४७।। नीत्वाश्रमपदं तां च सुमुग्धमधुराकृतिम् । हरिणीमिव लोलाक्षी प्रेम्णा मुनिरवर्धयत् ।।४८ ।। अंगुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकंदर्पलीलावनमवाप सा ।।४९।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org