________________
१२६
आतुरप्रत्याख्यानप्रकीर्णकम्
५. मानध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रान्तर्गतसुभूमचक्रवर्तिपरशुरामाख्यानकः ।
अरतीर्थकृतस्तीर्थे सुभूमस्याथ चक्रिणः । अष्टमस्य क्रमायातं चरितं कीर्तयिष्यते ।।१।। इहैव भरतक्षेत्रे विशालनगरेऽभवत् । भूपालो नाम भूपालः पालयन् क्षत्रियव्रतम् ।।२।। सोऽन्यदैकत्र संग्रामे बहुभिः परिपन्थिभिः । एकीभूय पराजिग्ये वृन्दं हि बलवत्तरम् ।।३।। स वैरिभिः पराभूतोऽपमानमलिनाननः । संभूतमुनिपादान्ते परिव्रज्यामुपाददे ।।४।। प्रभुत्वभोगविषयं निदानं तपसोऽथ सः । कृत्वावसानं चासाद्य महाशुक्रे सुरोऽभवत् ।।५।। इतश्चर्षभनाथस्य कुरुरित्यभवत् सुतः । यस्य नाम्ना कुरुदेशो हस्तिनाम्ना च तत्सुतः ।।६।। यन्नाम्ना हास्तिनपुरं तीर्थकृच्चक्रिजन्मभूः । तद्वंश्योऽनंतवीर्योऽभूत्तत्र राजा महाभुजः ।।७।। इतश्च भरतक्षेत्रे वसंतपुरपत्तने । उच्छिन्नवंश एकोऽभूदग्निको नाम दारकः ।।८।। सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । सार्थाद्धीनः परिभ्राम्यन्नगमत्तापसाश्रमम् ।।९।। तमग्निं तनयत्वेनाग्रहीत् कुलपतिर्जनः । जमदग्निरिति ख्यातिं स लोकेषु ततोऽगमत् ।।१०।। तप्यमानस्तपस्तीव्र प्रत्यक्ष इव पावकः । तेजसा दुःसहेनासौ पप्रथे पृथिवीतले ।।११।। तदा च श्राद्धः प्राग्जन्मनाम्ना वैश्वानरः सुरः । धन्वंतरिश्च तापसभक्तो व्यवदतामिति ।।१२।। एक आहार्हतां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् ।।१३।। आर्हतेषु जघन्यो यः प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरतिरिच्यते ।।१४।। तदानी मिथिलापुर्या नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीतले ।।१५।। दीक्षां स वासुपूज्यान्ते ग्रहीतुं भावतो यतिः । गच्छंश्चंपापुरी ताभ्यां देवाभ्यां ददृशे पथि ।।१६।। परीक्षाकांक्षया ताभ्यां पानान्ने ढौकिते नृपः । तृषितः क्षुधितोऽप्यौज्झद्धीराः सत्त्वाच्चलन्ति न ।।१७।। क्रकचैरिव चक्राते क्रूरैः कर्करकंटकैः । पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः ।।१८।। पादाभ्यां प्रक्षरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूलिकातलवच्चारु संचचार तथापि सः ।।१९।। निर्ममे गीतनृत्तादि ताभ्यां क्षोभाय भूपतेः । तन्मोघमभवत्तत्र दिव्यास्त्रमिव गोत्रजे ।।२०।। तौ सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाद्यापि महाभाग महदायुयुवासि च ।।२१।। स्वच्छन्दं भुंक्ष्व तद्भोगान् का धीर्यद्यौवने तपः । निशीथकृत्यं कः प्रातः कुर्यादुद्योगवानपि ।।२२।। यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । गृह्णीयास्त्वं तपस्तात द्वितीयमिव वार्धकम् ।।२३।। राजोचे यदि बह्वायुर्बहुपुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवर्धते ।।२४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org