SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ खण्डः-२ दृष्टान्तसमुच्चय: १२५ ५. मानध्याने श्रीत्रिषष्टिशलाकापुरुषचरित्रान्तर्गतश्रीविश्वभूतिकथाश्लोकानि । ब्रह्मलोकात्परिच्युत्य स बभ्राम बहून् भवान् । भवो ह्यनन्तीभवति स्वकर्मपरिणामतः ।।१।। इतश्चाभूद्राजगृहे विश्वनन्दी महीपतिः । पत्न्यां प्रियंगौ विशाखनन्दी तस्याभवत्सुतः ।।२।। विशाखभूतियुवराड् राज्ञस्तस्यानुजोऽभवत् । युवराजस्य तस्याभूद्धारिणी नामतः प्रिया ।।३।। मरीचिजीवः प्राग्जन्मोपार्जितैः शुभकर्मभिः । विशाखभूतेर्धारिण्यां विश्वभूतिः सुतोऽभवत् ।।४।। उद्यौवनो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तः पुरो देवकुमार इव नन्दने ।।५।। विशाखनन्दी क्रीडेच्छू राट्पुत्रोऽस्थात्तु तद्बहिः । पुष्पाद्यर्थं गता दास्यो ददृशुस्तौ तथास्थितौ ।।६।। ताभ्यो ज्ञात्वा प्रियंगुस्तत् कोपौकः कुपिता ययौ । तदीप्सितार्थं राजापि यात्राभेरीमवादयत् ।।७।। उद्वृत्तः पुरुषसिंहः सामन्तस्तज्जयाय तत् । यास्यामीति सभामध्ये मायया चावदन्नुपः ।।८।। तच्च श्रुत्वा विश्वभूतिजुरेत्य वनात्ततः । भक्त्या निवार्य राजानं प्रयाणमकरोत् स्वयम् ।।९।। गतश्च पुरुषसिंहं दृष्ट्वाऽऽजावर्तिनं पुनः । ववले तत्र च ययौ वने पुष्पकरण्डके ।।१०।। विशाखनन्दी मध्येऽस्तीत्युक्तो द्वाःस्थेन तत्र सः । अचिन्तयन्माययाऽहं कृष्टः पुष्पकरण्डकात् ।।११।। क्रुद्धः कपित्थं मुष्ट्याहंस्तत्फलैः पतितैर्भुवम् । छादितां दर्शयन् सोऽथ जगाद द्वारपालकम् ।।१२।। पातयामि शिरांस्येवं सर्वेषां भवतां पुनः । ज्यायसी ज्यायसि ताते न चेद्भक्तिर्भवेन्मम ।।१३।। भोगैरीदृग्वञ्चनाद्यैर्ममालमिति स ब्रुवन् । संभूतिमुनिपादान्ते गत्वा व्रतमुपाददे ।।१४।। तं च प्रव्रजितं श्रुत्वा राजा सावरजोऽप्यगात् । नत्वा च क्षमयित्वा च राज्यायार्थयते स्म च ।।१५।। विश्वभूतिमनिच्छन्तं ज्ञात्वा भूपोऽगमद् गृहम् । ततो व्यहार्षीदन्यत्र स पुनर्गुरुणा सह ।।१६।। स गुर्वनुज्ञयैकाकिविहारेण तपः कृशः । विहरत्नेकदागच्छन्नगरी मथुराभिधाम् ।।१७।। तदा विशाखनन्द्यागादुद्वो तनृपात्मजाम् । विश्वभूतिश्च मासान्ते पारणायाविशत्पुरीम् ।।१८।। विशाखनन्दिनः सोऽथ शिबिराभ्यर्णमागतः । विश्वभूतिः कुमारोऽसावित्यदर्श्यत पूरुषैः ।।१९।। विशाखनन्दी तं सद्यः प्रेक्ष्य द्विषमिवाकुपत् । गवैकया विश्वभूतिः पर्यस्तश्च तदाऽपतत् ।।२०।। कपित्थपातनं स्थाम क्व ते चेत्यहसच्च सः । धृत्वा गां शृङ्गयोर्विश्वभूतिश्चाभ्रमयत्क्रुधा ।।२१।। भूयिष्ठवीर्यो भूयासं मृत्यवेऽस्य भवान्तरे । अनेन तपसोग्रेण निदानमिति सोऽकरोत् ।।२२।। संपूर्य कोटिवर्षायुरनालोच्य च तन्मृतः । विश्वभूतिर्महाशुक्रे प्रकृष्टायुः सुरोऽभवत् ।।२३।। त्रिषष्टि० १० पर्व० श्लोक० ८५ त : १०७] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy