________________
आतुरप्रत्याख्यानप्रकीर्णकम्
सम्पातिमादिसत्त्वानां, रक्षायै मुखवस्त्रिकाम् । भक्तपानस्थजन्तूनां परीक्षायै च पात्रकम् ।।६५।। सम्यक्त्वज्ञानचारित्रतपासाधनहेतवे । चीवराणि च कल्पादीन्यङ्गीकुर्वन्ति साधवः ।।६६।। (युग्मम्) वस्त्रैर्विना तु शीतोष्णदंशादिभिरुपद्रुतः । अपध्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ।।६७।। धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता । सुनिश्चितेति व्रतिनां तदादानं न दुष्यति ।। ६८ ।। विनोपकरणं यस्तु, जीवादींस्त्रातुमिश्वरः । जिनेन्द्रवत्तस्य दोषः स्यात्तदग्रहणेऽपि न स चाद्यसंहननवानेव स्यान्नाऽपरः पुनः । तच्च संहननं कस्याऽप्यधुना नास्ति भारते ।। ७० ।। युक्तयेत्यादिकयोक्तोऽपि शिवोऽत्यक्तकदाग्रहः । हित्वा वस्त्रादिकं नग्नो, निरगान्नगराद्बहिः । । ७१ ।। [उत्तरा० निह्नवधिकार० श्लोक-३ तः ७३]
।।
६९ ।।
,
५. मानध्याने श्रीउपदेशमालाहेयोपादेयावृत्तिव्यावर्णितबाहुबलीकथानकः ।
१२४
भरते चक्रवर्तिनि निजाज्ञाग्राहणोद्यते तत्कनिष्ठभ्रातरो विहाय राज्यानि ऋषभदेवान्तिके प्राव्राजिषुः । समुत्पन्नानि च सर्वेषां केवलज्ञानानि । बाहुबली पुनस्तद्भ्रातैव कथमहमेतद्भयादाज्ञां प्रव्रज्यां वा करिष्यामीत्यमर्षादभ्युत्थितः संलग्नं द्वयोरपि युद्धं दृष्टिवाग्बाहुमुष्टिदण्डप्रहारयुद्धेषु निर्जितो भरतः, चिन्तितमनेन किमयं चक्रवर्तीति ? अत्रान्तरेऽर्पितं देवतया चक्रम् । गृहीतचक्रो दृष्टो बाहुबलिना चिन्तितमनेन चूर्णयामि सचक्रमेनन् अथवा किमस्य गतमर्यादाजीवितस्य मारणेन ! अहो दुरन्ता विषयाः । यदासक्ता न कुर्वन्ति योग्यायोग्यविचारम् । यदुक्तम्
,
)
न मातरं न पितरं, न स्वसारं न सोदरं । गुणैः सम्पश्यति तथा, विषयान् विषयी यथा ।।१।। इति सञ्जातवैराग्येण तेन निःसृष्टो भुवि दण्डः कृतः पञ्चमुष्टिको लोचः, अर्पितं देवतया रजोहरणादि, प्रपन्नः प्रव्रज्यां, इति तदवलोक्य लज्जितः स्वकर्मणा भरतः प्रसाद्यानेकविधं वन्दित्वा गतः स्वस्थानम् । बाहुबली पुनः कथमहं छद्मस्थतया केवलिनो लघुभ्रातृन् वन्दिष्ये ? इत्यभिप्रायात्स्थितस्तत्रैव कायोत्सर्गेण तिष्ठतो गतं वर्षं, शीतवातातपैर्दवदग्धस्थाणुकल्पं कृतं शरीरकं, प्रसरिताः समन्ततो वल्लर्यः, प्ररूढा दर्भशूच्यः समुद्गताश्चरणयोर्वाल्मीकाः, प्रसूताः कूर्चादौ शकुनय इति । भगवता तद्भगिन्यौ ब्राह्मीसुन्दर्यो 'भ्रातर ! अवतर हस्तिन' इति वक्तव्यं गत्वा युवाभ्यामित्युपदिश्य तत्पार्श्वं प्रहिते । गत्वाभिहितं तत्ताभ्यां चिन्तितमनेन । कुतो मुक्तसङ्गस्य हस्ती ! आ! ज्ञातं ! मान इति । धिग् मा दुष्टचित्तकं ! वन्द्यास्ते भगवन्तो, व्रजामि वन्दितुं, इत्युत्पादितं चरणेन सह केवलज्ञानमिति । यदि गर्वं नाकरिष्यत्त् तदादित एवोत्पाटयिष्यत् । अतो न मदेन धर्मो भवतीति स्थितम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org