________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१२३
तदाकाऽखर्वगर्वः, शिवभूतिरचिन्तयत् । मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ।।४० ।। यतः-“स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः । पादाहतं यदुत्थाय, मूर्द्धानमधिरोहति ।।४१।।" विमृश्येति निजाद्नेहाद्व्याघुट्य नगरे भ्रमन् । दैवादुद्घाटितद्वारं, साधूपाश्रयमैक्षत ।।४२।। ततस्तत्र प्रविश्यार्यकृष्णाचार्यान् प्रणम्य तान् । मां प्रव्राजयतेत्यूचे, ते तु प्राव्राजयन्न तम् ।।४३।। स्वयमेव ततस्तेन, लुञ्चिते, स्वीयमस्तके । गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ।।४४।। तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः । मामनापृच्छय किमिदं, त्वया कृतमिति ब्रुवन् ? ।।४५।। स प्रोचे पृष्टमेवैतत्स्वातन्त्र्यप्रार्थिना मया । ततो नृपस्तं नत्वाऽगाद्विमनास्तद्वियोगतः ।।४६।। बहिर्विहृत्य तत्राऽऽगुः, सूरयोऽप्यऽन्यदा पुनः । तदा शिवं नृपः स्नेहादाहूय स्वगृहेऽनयत् ।।४७ ।। अनीच्छतोऽपि तस्याऽदाद्भूधवो रत्नकम्बलम् । तमादायागतं सूरिः, शिवभूतिं तदेत्यवक् ।।४८।। किमयं भवता वत्स !, जगृहे रत्नकम्बलः । न हि नो बहुमूल्यस्य, वस्त्रादेर्ग्रहणं मतम् ।।४९।। इत्युक्तोऽपि स सूरीन्द्रैस्तं न तत्याज मूर्च्छया । किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ।।५० ।।
अस्य मूर्छानिदानेन, किमनेनेति सूरयः । तस्मिन् क्वापि गते रत्नकम्बलं तमकर्षयन् ।।५१।। विधाय तस्य शकलान्निषद्यायै तपस्विनाम् । आर्पयंस्तञ्च विज्ञाय, शिवभूतिरदूयत ।।५२ ।। कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् । अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् ।।५३ ।। भवन्ति द्विविधास्तावज्जिनकल्पिकसाधवः । तत्रै के भुञ्जते पाणावन्ये त्वश्नन्ति पात्रके ।।५४ ।। तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः । तत्र वस्त्रधरा एकेऽन्ये तु चीवरवर्जिताः ।।५५ ।। श्रुत्वेत्यादि शिवोऽवोचज्जिनकल्पोऽधुना कुतः । विधीयते न निर्ग्रन्थैर्निष्परिग्रहतार्थिभिः ? ।।५६।। सूरिर्जगाद व्युछिन्नो, जिनकल्पो हि भारते । श्रीवीरस्वामिपौत्रेण, श्रीजम्बूस्वामिना समम् ।।५७ ।। सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न माद्दशाम् । माद्दशो हि महासत्त्वः, कर्तुमीष्टेऽधुनाप्यमुम् ।।५८ ।। मोक्षार्थिना हि सकलस्त्याज्य एव परिग्रहः । वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् ।।५९।। सूरयः प्रोचिरे वत्स !, वस्त्रपात्रादिकं ह्यदः । धर्मोपकरणं तेन, न परिग्रह उच्यते ।।६०।। तद्रक्षणे च नो कश्चिद्दोषो मोक्षार्थिना भवेत् । लोभादेव हि मोक्षस्य, विघ्नः स्यान्न तु चीवरात् ।।६१।। प्रयोगश्चात्र वस्त्रादि, न दोषाय तपस्विनाम् । धर्मोपष्टम्भदायित्वात्, शुद्धाहारादिवत्स्फुटम् ।।६२ ।। न च हेतुरसिद्धोऽयमिति वाच्यं त्वया यतः । धर्मोपष्टम्भदायित्वं, तस्याऽध्यक्षेण दश्यते ।।६३।। तथा हि-स्थानोपवेशनस्वापनिक्षेपग्रहणादिषु । जन्तुप्रमार्जनार्थं हि, रजोहरणमिष्यते ।।६४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org