________________
१२२
आतुरप्रत्याख्यानप्रकीर्णकम्
तद्गोचरो विशेषश्च, नोक्तः कोऽपि महीभृता । चण्डस्वभावो भूपश्च, न प्रष्टुं शक्यते पुनः ।।१६।। तदस्माभिः क्व गन्तव्यं, ध्यायन्त इति तेऽखिलाः । स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ।।१७।। शिवभूतिस्तावदागात्तत्र तांश्चैवमब्रीवत् । किं स्थिता यूयमशुभनिमित्तस्खलिता इव ।।१८।। यथास्थितेऽथ तैरुक्ते, सोऽवादीञ्चिन्तया कृतम् । सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ।।१९।। ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते । नाऽऽदातुं शक्यतेऽस्माभिरेकापि नगरी सखे ! ।।२०।। भावी भूयस्तरः काल, एकस्या अपि निर्जये । एकां जित्वा तदन्यस्या, निर्जयोऽप्यऽतिदुष्करः ।।२१।। शिवभूतिस्ततोऽवादीद्यद्येवं तर्हि भो भटाः ! । तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् ।।२२।। द्वयोर्मध्ये दविष्ठा या, तां व्रजेत्युदितेऽथ तैः । सोऽपाच्यमथुरादेशं, ययौ बुद्धिबलोर्जितः ।।२३।। तस्य देशस्य च प्रान्त्यान्, ग्रामादीन् साधयन् स्वयम् । दुर्गान् जग्राह निखिलान्, क्रमाच्च नगरीमपि ।।२४ ।। वशीकृत्याथ तद्राज्यं, शिवभूतिर्महामतिः । गत्वा च भूभुजोऽभ्यर्णे, सर्वं व्यतिकरं जगौ ।।२५।। ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? किञ्चिद्विमृश्य सोऽप्यूचे, स्वातन्त्र्यं देहि मे प्रभो ! ।।२६।। यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः । यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् । २७ ।। एवमस्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः । सोऽपि नानाविधाः क्रीडाः, कुर्वंस्तत्राऽभ्रमत्पुरे ।।२८ ।। द्यूतकारैः समं रेमे, स कदाचिद्दिवानिशम् । कदाचित्तु सुरां पीत्वा, क्षीबः क्षीबैः सहारमत् ।।२९।। कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् । कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ।।३० ।। विजहार कदाचित्तु, कानने नन्दनोपमे । कुर्वन् पुष्पोच्चयक्रीडां, वृतो विटजनैर्घनैः ।।३१।। भ्रमन्नेवं स स्वसौधे, निशीथेऽप्याऽऽययौ नवा । उल्लङ्घते हि मर्यादां, प्रायो वीतभयो जनः ।।३२।। यावञ्च स गृहे नागात्तावत्तस्य वशास्वयम् । नाश्नाति स्म न चाशेत, पालयन्ती सतीव्रतम् ।।३३।। नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनस्विनी । अन्यदा तस्य जननीमिति स्माह सगद्गदम् ।।३४।। पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे । यावदागमनं चाहं, न भुले न शयेऽन्वहम् ।।३५ ।। नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् । तत्किङ्करोम्यहं मातस्त्वदादेशवशंवदा ।।३६ ।। श्वश्रूः शशंस सुभगे !, स्वपिहि त्वं यथासुखम् । अद्याहमेव जागर्मि, तयेत्युक्ताऽस्वपीद्वधूः ।।३७ ।। गृहद्वारं पिधायास्थात्तस्य माता तु जाग्रती । सोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्घाट्यतामिति ।।३८ ।। माता प्रोचेऽघुना यत्र, द्वारमुद्घाटितं भवेत् । तत्र प्रयाहि न ह्यत्र, द्वारमुद्घाट्यतेऽधुना ।।३९।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org