________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१२२
जह नेरइयतेरिच्छाइएसु इयरेसु विप्फुरइ कोवो । तह जह गुणगुरुएसुवि ता किंनु विवेयसामत्थं ? ।।७४ ।। ता उवसमसु मुणीसर ! सुमरसु जिणभासियाइं वयणाई । करुणाए देसु चित्तं कुणसु पसायं तिहुयणस्स ।।७५ ।। इय एवमाइभणिएहिं ताण तह सयलसंघवयणेहिं । ससुरासुरलोएण य पारद्धे संतिकम्ममि ।।७६ ।। चक्किंमि महापउमे य नायतव्वइयरे सपरिवारे । संभमकंपिरगत्ते नमिउं चलणेसु खामंते ।।७७ ।।
तो कहवि हु उवसंतो तप्पभिई तिविकमोत्ति स पसिद्धो ।
आलोइयपडिक्कंतो विहरइ सुद्धो जओ भणियं ।।७८ ।। आयरिए गच्छम्मि य कुलगणसंघे य चेइयविणासे । आलोइयपडिक्कंतो सुद्धो जं निज्जरा विउला ।।७९ ।। पावियकेवलनाणो विण्हुकुमारो कमेण तो सिद्धो । चक्कीवि महापउमो गहिऊण वयं गओ सिद्धिं ।।८० ।। ४. क्रोधध्याने श्रीउत्तराध्ययनागमोक्तनिह्नवाधिकारात् शिवभूतिनामनिह्नवकथा । रथवीरपुराभिख्ये, पुरेऽभूद्दीपकाभिधम् । वनं तत्रार्यकृष्णाख्याः, सूरयः समवासरन् ।।१।। इतश्च शिवभूत्याख्यः, क्षत्रियः सात्त्विकाग्रणीः । सहस्रयोधीतत्रत्यं, नृपं सेवितुमाश्रयत् ।।२।। नृपो दध्यौ परीक्षेऽहमस्य धैर्यादिकान् गुणान् । निर्गुणो ह्यनुजीवी स्यात्स्वामिनो नो सुखाकरः ।।३।। परीक्षापूर्वमेवास्मै, प्रदास्ये वृत्तिमप्यहम् । निर्गुणे हि जने दत्तं , स्याद्भस्मनि हुतोपमम् ।।४।। ध्यात्वेति भूपतिः श्यामचतुर्दश्यां निशामुखे । पशुमेकं वारुणीं च, तस्य दत्वैवमब्रवीत् ।।५।। श्मशानस्थे मातृदेवीगृहे गत्वा त्वमेककः । पशुमद्य बलिं देहि, कृत्यमेतद्विधेहि नः ।।६।। शिवभूतिस्तदादाय, धीरः प्रेतवने ययौ । निहत्य छगलं मातृदेवीनां च बलिं ददौ ।।७।। क्षुधितोऽस्मीति तत्रैवाऽऽरेभे तन्मांसभक्षणम् । श्मशानमातृदेवीभ्यो, बिभयामास न त्वसौ ।।८।। तदा च तद्भापनाय, भूपेन प्रहिता नराः । तत्रागत्य शिवाशब्दान्, भैरवान् परितो व्यधुः ।।९।। बभाज तैरपि क्षोभं, तन्मनो न मनागपि । न चाङ्गेऽप्यभवत्तस्य, रोमोद्भेदो भयोद्भवः ।।१०।। तत्स्वरूपं ततो राज्ञे, प्रोचुस्ते राजपूरुषाः । सोऽपि स्वस्थतया भुक्त्वा, जगाम क्ष्मापसन्निधौ ।।११।। ततोऽवबुध्य तं शूरं, बह्वीं वृत्तिं ददौ नृपः । शिवभूतिस्ततो भूपं, सिषेवे तमहर्निशम् ।।१२।। अन्यदा स नृपः सेनापत्यादीनखिलान् भटान् । इत्यादिदेश मथुरानगरी गृह्यतां द्रुतम् ।।१३।। ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति । पुराबहिश्च गत्वेति, परस्परमचिन्तयन् ।।१४।। वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया । द्वे चात्र मथुरापुर्यो, विद्येते दक्षिणोत्तरे ।।१५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org