________________
आतुरप्रत्याख्यानप्रकीर्णकम्
यदेतत् पश्चिमं गेयं नृत्यमञ्जलिकर्म च । पानं मृदंगरागादि यदन्यदपि किंचन ।। ११ । । गोशालस्य चतुर्विंशस्यार्हतो मोक्षलक्ष्म तत् । गत्वाऽमुं पृच्छा सन्देहं सर्वज्ञो ह्येष ते गुरुः ।। ९२ ।। इत्युक्तस्तैरभिगन्तुं स प्रावर्तिष्ट तेऽपि हि । तस्याऽऽगमं संशयं च गोशालस्य पुरोऽवदन् ।।९३।। तेऽन्यतो मद्यपात्रादि गोशालेन व्यमोचयन् । आसने चासयाञ्चक्रुस्तदा चाऽऽगादयंपुलः । । ९४ ।। ततो निषण्णमग्रे तमूचे गोशालकोऽपि हि । तृणगोपालिका किंसंस्थानेति तव संशयः ।। ९५ ।। तृणगोपालिकां विद्धि वंशीमूलसमाकृतिम् । श्रुत्वेति मुदितः सद्योऽयंपुलः स्वाश्रयं ययौ ।।९६।। अन्येद्युश्चेतनां लब्ध्वा ज्ञात्वाऽन्तसमयं निजम् । शिष्यानाहूय गोशालो व्याजहारेति सादरः । । ९७ ।। मृतस्य मे वपुः स्नप्यं गन्धाम्भोभिर्विलेपनैः । सुगन्धिभिर्विलेप्यं चाऽऽमोच्यं चोत्कृष्टवाससा ।।९८ ।। भूष्यं च भूषणैर्दिव्यैरारोप्यं तदनन्तरम् । सहस्रवाह्यां शिबिकां ततो निःसार्यमुत्वात् ।।९९ ।। अयमत्रावसर्पिण्यां चतुर्विंशो जिनेश्वरः । गोशालः प्रययौ मोक्षमित्युद्घोष्यं पुरेऽखिले । । १०० ।। ते तथा प्रत्यपद्यन्त गोशालोऽप्यह्नि सप्तमे । जातशुद्धाशयः पश्चात्तापादेवमचिन्तयत् ।। १०१ ।। अहो! पापोऽहमर्हन्तं वीरं धर्मगुरुं निजम् । नितान्तमाशातितवांस्त्रिधाऽप्यत्यन्तर्दुर्मतिः ।।१०२।। अभाणयं च सर्वज्ञमात्मानं सर्वतोऽपि हि । मृषोपदेशैः सत्याभैः सर्वं लोकं प्रतारयन् ।। १०३ ।। धिङ्महर्षी मया दग्धौ गुरुगृह्यावुभौ च तौ । तेजोलेश्या स्वदाहायामुच्यत स्वामिने च धिक् ।। १०४ ।। कृते दिनानां स्तोकानां किमकार्यं मया कृतम् । भूयिष्ठनरकावासविनिवासनिबन्धनम् ।। १०५ ।। न केवलमयं स्वात्मा नरकायातिथीकृतः । किं त्वयं सकलो लोकोऽप्यसन्मार्गोपदेशतः । । १०६ ।। भवत्वियत्यपि गते लोको यातु पथैव हि । विमृश्यैवं समाहूय शिष्यानेवमथावदत् । ।१०७।। भो ! भोः ! शृणुत सर्वेऽपि नाहमर्हन्न केवली । किं त्वस्मि मंखलिसुतो गोशालो वीरशिष्यकः ।। १०८ ।। आश्रयाशो वह्निरिव प्रत्यनीको गुरोरहम् । मया दंभादियत्कालमात्मा लोकश्च वंचितः । । १०९ ।। छद्मस्थोऽहं मरिष्यामि दह्यमानः स्वतेजसा । वामांघ्रौ रज्जुभिर्बद्ध्वा कर्षणीयः पुरीह भोः ।। ११० ।। निष्ठीवद्भिर्मम मुखे मां कर्षद्भिर्मृतश्ववत् । घोषणीयमिदं पुर्यां त्रिकशृंगाटकादिषु ।।१११ ।। स एष मंखलिसुतो गोशालो दंभितप्रजः । मुनिघात्यजिनो दोषनिधानं गुरुतल्पगः । । ११२ ।। • जिनस्तु भगवान् वीरः सर्वज्ञः करुणानिधिः । हितोपदेष्टा न्यह्नोष्ट गोशालस्तं मुधैव हि ।। ११३ ।। इत्यर्थे शपथं दत्त्वा व्यथया स व्यपद्यत । तच्छिष्याश्च कुलालौकोद्वाराणि पिदधुर्क्रिया । । ११४ । ।
११६
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org