SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ खण्डः - २ दृष्टान्तसमुच्चयः स्वतेजोलेश्ययैव त्वं पुनः पित्तज्वरार्दितः । विपत्स्यसे सप्तदिनपर्यन्ते नात्र संशयः ।। ६७ ।। तेजोलेश्याक्लिश्यमानवपुष्को विलपन्नथ । भूमौ पपात गोशालः शालडुरिव वायुना ।। ६८ ।। गुर्ववज्ञाप्रकुपिता मुनयो गौतमादयः । एवं मर्माविधा वाचोच्चकैर्गोशालमूचिरे । । ६९ ।। धर्माचार्यप्रातिकूल्यभाजां भो ! भवतीदृशम् । तेजोलेश्या क्व तव सा धर्माचार्ये नियोजिता ? ।। ७० ।। सुचिरं विब्रुवाणोऽपि निघ्नन्नपि महामुनी । कृपयोपेक्षितो भर्त्रा स्वयमेव विपत्स्यसे ।। ७१ ।। व्यपत्स्यथाः पुराऽपि त्वं वैशिकायनलेश्यया । स्वलेश्यया शीतया त्वां नारक्षिष्यद्यदि प्रभुः । । ७२ ।। शार्दूल इव गर्ताऽन्तः पतितस्तेषु साधुषु । निःकर्तुं सोऽक्षमस्तस्थावुद्वेल्लनपरः क्रुधा ।। ७३ ।। निःश्वसन् दीर्घमुष्णं च दंष्ट्रालोमानि चोत्खनन् । पादाभ्यां ताड्यन्नुर्वी हतोऽस्मीति मुहुर्बुवन् ।।७४।। निष्क्रम्य स्वामिसदसो दस्युवद्वीक्षितो जनैः । हालाहलाकुम्भकार्या गोशालोऽगमदापणम् ।।७५।। (युग्मम्) अथ स्वामी मुनीनूचे तेजो गोशालकेन यत् । अस्मद्वधाय प्रक्षिप्तं तस्येयं शक्तिरूर्जिता ।।७६ ।। वत्साच्छकुत्समगधवंगमालवकोशलान् । पाटलाटवज्रिमालिमलयावाधकांगकान् ।। ७७ ।। काशीन् सुह्मोत्तरान् देशान् निर्दग्धुं षोडशेश्वरा । तेजोलेश्या गोशालस्य तपसोग्रेण साधिता ।।७८।। ते विसिमि सर्वे मुनयो गौतमादयः । सन्तः शक्तौ परस्यापि मात्सर्यं न हि बिभ्रति ।। ७९ ।। गोशालकोऽपि स्वेनैव दह्यमानोऽथ तेजसा । तापशान्त्यै पपौ मद्यं दधानो मद्यभाजनम् ||८०|| मदोन्मत्तो गायति स्म गोशालो नृत्यति स्म च । हालाहलायाः प्रणतिं प्राञ्जलिश्चाकरोन्मुहुः ।। ८१ ।। अंगरागीचकारांगे भाण्डार्थं मृदितां मृदम् । लुलोठ च गृहस्रोतोजले तच्चापिबन्मुहुः ।।८२।। असंबद्धविरुद्धानि प्रजजल्प वचांसि च । शिष्यैः सशोकैः स उपचर्यमाणोऽत्यगाद्दिनम् ।।८३।। गोशालोपासकस्तत्रायंपुलो धर्मजागरम् । पूर्वरात्रापररात्रे कुर्वन्नेवं व्यचिन्तयत् ।।८४।। तृणगोपालिका किंसंस्थानेति न हि वेद्म्यहम् । गत्वा पृच्छामि गोशालं सर्वज्ञं गुरुमात्मनः ।।८५।। एवं निश्चित्य गोसर्गेऽनर्ध्यभूषणभृद्ययौ । हालाहलागृहेऽपश्यद्गोशालं च तथा स्थितम् ।।८६।। लज्जयाऽथापचक्राम द्रुतद्रुतमयंपुलः । गोशालशिष्यैः स्थविरैर्दृष्टश्च जगदे च सः ।।८७।। अयंपुल ! निशायां ते पश्चिमायामजायत । तृणगोपालिकासंस्थाविषयः संशयः खलु ।। ८८ ।। विस्मितः सोऽप्युवाचैवमेवमेतन्महर्षयः । गोशालचेष्टितं गोप्तुं ते भूयस्तं बभाषिरे ।। ८९ ।। गायन्नृत्यन् पात्रपाणिरञ्जलिं च करोति यत् । निर्वाणप्राप्तिलिंगानि तदाख्याति गुरुस्तव ।। ९० ।। Jain Education International 2010_02 For Private & Personal Use Only ११५ www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy