________________
खण्ड:-२ दृष्टान्तसमुच्चयः
११३
अवसरः प्रसरश्च संवादः कारकस्तथा। भलनो वणिजोऽभूवन् क्षेमिलायां पुरा पुरि ।।१९।। भाण्डेरापूर्य शकटान्निर्ययुस्ते वणिज्यया । यान्तश्च निर्जलारण्यं विविशुः किञ्चिदध्वनि ।।२०।। ते पञ्चापि तृषाक्रान्ता मरुमार्गगता इव । जलं गवेषयामासुः पर्यन्टतो महाटवीम् ।।२१।। भ्राम्यन्नवसरः पञ्चशिखरं वामलूरकम् । ददर्शादर्शयत्तेषां चतुर्णां सुहृदामपि ।।२२।। ते तस्य पूर्वशिखरं संभूयाऽस्फोटयन् द्रुतम् । तस्माञ्च लेभिरे वारि तत्पीत्वा सुस्थतां ययुः ।।२३।। अथोचे प्रसरोऽपाच्यशृंगमप्यस्य दीर्यताम् । लप्स्यामहे नूनमितो वस्त्वन्यदपि किंचन ।।२४ ।। अथाब्रवीदवसरः खननं नास्य युज्यते । उत्थास्यत्यहिरेतस्मान्नाकुरोको हि भोगिनाम् ।।२५।। अवादीदथ संवादो विसंवादोऽप्यभूदिह । यत्परिस्फोटितात्पूर्वशिखरान्नाहिरुत्थितः ।।२६।। भूयोऽप्यवसरोऽवोचदैवादिह पयोऽभवत् । अथोचे कारको दैवाद् द्रम्मा इह नु भाविनः ।।२७।। इत्युदित्वा तत् खनितुं समारभत कारकः । मतं ममेदं नेत्युक्त्वा गन्त्रीमवसरो ययौ ।।२८ । । बभाषे भलनो यातोऽवसरो यदि यातु तत् । विनाऽप्यमुं खनिष्याम इति सर्वेऽपि तेऽखनन् ।।२९।। खातात्तस्मान्नाकुशृंगात् सद्यो द्रम्मा विनिर्ययुः । विभज्यावसरवर्णं चत्वारो जगृहुश्च तान् ।।३०।। चख्नुश्चतुर्थमपि ते शृंगं स्वर्णं च लेभिरे । ततो रजतमप्यौज्झन् सुवर्णादानलोभतः ।।३१।। रत्नानि पञ्चमे शृंगे भविष्यन्तीति बुद्धितः । चख्नुस्तदपि लोभान्धा लाभाल्लोभो हि वर्धते ।।३२।। अत्यन्तमथितादब्धेः कालकूट इवोत्कटः । तस्माच्छंगात् खन्यमानादुत्तस्थौ दृग्विषोरगः ।।३३।। वल्मीकाग्रस्थित; सोऽहिः प्राक् सूर्यं प्रेक्ष्य तान्दृशा । भस्मीचकार चतुरः सगन्त्रीवृषभानपि ।।३४ । । निर्लोभ इत्यवसरं सगन्त्रीवृषमप्यथ । तस्याहेर्देव्यधिष्ठात्री प्रापयत् स्थानमीप्सितम् ।।३५ ।। धक्ष्यामि त्वद्गुरुं सर्पोऽधाक्षीत्तांश्चतुरो यथा । मोक्ष्यामि त्वामहं सोऽहिर्मुमोचावसरं यथा ।।३६।। ततोऽसमाप्तभिक्षार्थ एवाऽऽनन्दो ययौ प्रभुम् । गोशालोक्तं तदाचख्यावपृच्छेच्चेति शंकितः ।।३७ ।। भस्मराशीकरिष्यामीत्युक्तं गोशालकेन यत् । उन्मत्तभाषितं तत् किं तत्कर्तुमथवा क्षमः ? ।।३८ ।। अथाचचक्षे भगवानर्हद्भ्यः सोऽन्यतः क्षमः । अर्हतामपि सन्तापमात्रं कुर्यादनार्यधीः ।।३९।। तद्गत्वा गौतमादीनां शंसेदं ते यथा हि तम् । इहागतं नोदनया धर्म्ययापि नुदन्ति न ।।४०।। तेषां गत्वाऽऽख्यदानन्दस्तदा गोशालकोऽपि हि । तत्राऽऽगात् स्वामिनोऽग्रे चावस्थाय व्यब्रवीदिति।।४१।। भोः काश्यप ! वदस्येवं गोशालो मंखले: सुतः । अन्तेवासी ममेत्यादि तन्मृषा भाषितं तव ।।४२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org