________________
११२
आतुरप्रत्याख्यानप्रकीर्णकम्
मातामहप्रजां सर्वां, लूंट्यमानां स रक्षितुम् । निनाय नीलवत्यद्रौ, द्रुतमुत्पाट्य विद्यया ।।१२२ ।। कोपाविष्टः कूणिकोऽथ, तां पुरीं युक्तरासभैः । खेटयित्वा हलैस्तीर्णप्रतिज्ञः स्वपुरीं ययौ ।।१२३।। कूलवालकनामा तु, मृत्वागान्नरकं कुधीः । उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ।।१२४ ।।
कूलवालकमुनेरिव दुःखावाप्तिरेवमविनीतमुनेः स्यात् ।
धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः ।।१२५ ।। ४. क्रोधध्याने त्रिषष्टिशलाकापुरुषचरिते गोशालकाख्यानकः । इत्याख्याय ततो नाथः श्रावस्ती विहरन् ययौ । तस्यां च समवासार्षीदुद्याने कोष्ठकाभिधे ।।१।। तस्यां प्रागागतस्तेजोलेश्याहतविरोधकः । अष्टांगनिमित्तज्ञानज्ञातलोकमनोगतः ।।२।। अजिनोऽपि जिनशब्दमात्मना संप्रकाशयन् । हालाहलाकुंभकार्या गोशालोऽवसदापणे ।।३।। (युग्मम्) तस्य चाहन्निति ख्यातिं लोक आकर्ण्य मुग्धधीः । उपेत्योपेत्य विदधे निरन्तरमुपासनम् ।।४।। इतश्च समये प्राप्ते गौतमः स्वाम्यनुज्ञया । प्राविशत् पुरि भिक्षार्थं चिकीर्षुः षष्ठपारणम् ।।५।। गोशालोऽत्रास्ति सर्वज्ञोऽर्हन्नित्याकर्ण्य तत्र च । गौतमः सविषादोऽगादात्तभिक्षोऽन्तिके प्रभोः ।।६।। यथावत् पारणं कृत्वा गौतमः समये प्रभुम् । पश्यतां पौरलोकानामपृच्छत् स्वच्छधीरिति ।।७।। स्वामिन्नगर्यामतस्यां व्याहरन्त्यखिला जनाः । सर्वज्ञ इति गोशालं किमेतद् घटते न वा ? ।।८।। अथाख्यद्भगवानेष सूनुर्मखस्य मंखलेः । अजिनोऽपि जिनमन्यो गोशालः कपटालयः ।।९।। मयैव दीक्षितश्चायं शिक्षां च ग्राहितो मया । मिथ्यात्वं प्रतिपन्नो मे सर्वज्ञो नैष गौतम ! ।।१०।। तत्तु स्वामिवचः श्रुत्वा पौराः पुर्यामितस्ततः । एवं बभाषिरेऽन्योऽन्यं चत्वरेषु त्रिकेषु च ।।११।। हं हो अर्हनिहायातो वीरस्वामी वदत्यदः । गोशालो मंखलिसुतो मिथ्या सर्वज्ञमान्यसौ ।।१२।। जनुश्रुत्या ततः श्रुत्वा गोशाल: कालसर्पवत् । आपूर्यमाणः कोपेन तस्थावाजीवकावृतः ।।१३।। इतश्च स्वामिनः शिष्य आनन्दः स्थविराग्रणीः । षष्ठपारणकं कर्तुं भिक्षार्थं प्राविशत् पुरि ।।१४।। हालाहलागृहासीनो गोशालस्तत्प्रदेशगम् । आनन्दमुनिमाहूय साधिक्षेपमदोऽवदत् ।।१५।।
भो आनन्द ! तवाचार्यो लोकात् सत्कारमात्मनः ।
इच्छन् वीरः सभान्वक्षं मां तिरस्कुरुतेतराम् ।।१६।। मंखपुत्रमनर्हन्तमसर्वज्ञं च वक्ति माम् । तेजोलेश्यां न मे वेत्ति विपक्षदहनक्षमाम् ।।१७।। भस्मराशीकरिष्यामि तमहं सपरिच्छदम् । त्वामेवैकं विमोक्ष्यामि दृष्टान्तोऽत्र निशम्यताम् ।।१८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org