________________
खण्ड:-२ दृष्टान्तसमुच्चयः
तन्निशम्य नृपस्तुष्टस्तां वेश्यामेवमादिशेत् । इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ।।९७ ।। तत्प्रपद्याभवन्मायाश्राविका सा पणाङ्गना । मुनेः कुतोऽपि तत्रस्थमज्ञासीत्तं च संयतम् ।।९८ ।। तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि । इति सा दम्भिनी प्रोचे, वचनैरमृतोपमैः ।।९९।। नन्तुं तीर्थानि चंपातः, प्रभो ! प्रस्थितया मया । सर्वतीर्थाधिकाः पूज्यपादा दिष्ट्याऽत्र वन्दिताः ।।१०० ।। मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् । तयेति सादरं प्रोक्तस्तत्सार्थे साधुरप्यगात् ।।१०१।। तस्यादान्मिश्रितद्रव्यान्, सामोदा सापि मोदकान् । तद्भक्षणादतीसारस्तस्यासीदतिदुस्सह: ।।१०२।। ततः सा तत्र तद्वैयावृत्यदम्भेन तस्थुषी । मुहुर्मुनिमुपासर्पत्सर्पवत्कुटिलाशया ।।१०३ ।। उद्वर्त्तनादिना स्वाङ्गस्पर्श चाचीकरन्मुहुः । भेषजान्तरदानाच्च, तमुल्लाघं व्यधाच्छनैः ।।१०४ ।। तत्कटाक्षसरागोक्तिशरीरस्पर्शविभ्रमैः । मुनेर्मनोऽचलत्तस्य, स्त्रीसङ्गे क्वनु ? तत्स्थिरम् ।।१०५ ।। त्यक्तव्रतस्ततस्तस्यामासक्तः सोऽभवत्तथा । यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ।।१०६ ।। तद्वशः कूणिकोपान्तं, ततोऽगात्कूलवालकः । सत्कृत्य कूणिकोऽप्येवमब्रवीत्तं मुनिब्रुवम् ।।१०७ ।। महात्मन् ! गृह्यते नेयमुपायैर्बहुभिः पुरी । ततस्तद्ग्रहणोपायं, विधेहि धिषणानिधे ! ।।१०८।। ततो दैवज्ञवेषेण, वैशाली प्रविवेश सः । श्रीसुव्रतार्हतः स्तुपं, भ्रमंस्तत्र ददर्श च ।।१०९।। दध्यौ च नूनमस्यास्ति, प्रतिष्ठालग्नमुत्तमम् । अभंगा तन्महिम्नासौ, नगरी ननु वर्त्तते ।।११० ।। कथं मया पातनीयस्तदसाविति चिन्तयन् । अपृच्छयत पुरीरोधाकुलेनेति जनेन सः ।।१११।। वद दैवज्ञ ! वैशाल्या, रोधो यास्यत्यसौ कदा ? । खिन्नाः स्मो यद्वयं कारावासेनेवामुना भृशम् ।।११२ ।। मुदितः स ततोऽवादीत्, पापपङ्केकशूकरः । स्तूपोऽसौ यावदत्र स्यात्तावदुद्वेष्टनं क्व ? वः ।।११३।। तल्लोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् । तदाऽपयाति नियतं पुरीरोधोऽधुनैव हि ।।११४ ।। प्रोक्तो धूर्तेन तेनेति, बालवबालिशो जनः तं स्तूपं भक्तुमारेभे, धूतैः को न हि वञ्च्यते ।।११५ । । स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः । सद्योऽपासारयच्चंपाधीशं क्रोशद्वयं ततः ।।११६ ।। ततः स प्रत्ययैर्लोकः, स्तूपे मूलात्प्रपातिते । व्याधुट्य कूणिकोऽविक्षत्, पुरीं सबलवाहनः ।।११७ ।। तदा चानशनं कृत्वा, स्मृत्वा पञ्चनमस्क्रियाः । चेटको न्यपतत् कूपे, बद्धाऽयःपुत्रिकां गले ।।११८ ।। तदा तत्रासनास्थैर्यादागत्य धरणाधिपः । साधर्मिकं तमादाय, निनाय भवने निजे ।।११९ ।। विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पञ्चत्वं, चेटकस्त्रिदिवं ययौ ।।१२० ।। इतश्च सुज्येष्ठासूनुदौहित्रश्चेटकप्रभोः । वैशाल्यामाययौ दैवात्तदा सत्यकिखेचरः ।।१२१ ।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org