________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१०९
दौहित्रत्वात्समाना मे, भवन्तो यद्यपि त्रयः । न्यायित्वादाश्रितत्वाच्च, विशिष्येते तथाऽप्यमू ।।४८।। सत्यप्येवं दापयामि, द्विपादि तव तुष्टये । ददासि यदि राज्यांशं, न्यायोपेतं त्वमेतयोः ।।४९।। तच्चेटकवचो गत्वा, दूतः स्वस्वामिनेऽवदत् । क्रोधामातस्ततः सोऽपि, यात्राभंभामवीवदत् ।।५० ।। कालाद्यैर्दशभिर्युक्तो, भ्रातृभिर्निजसन्निभैः । त्रयस्त्रिंशत्सहस्राश्वरथसिन्धुरसंयुतः ।।५१।। त्रयत्रिंशत्कोटिपत्तिकलितश्चलितस्ततः । कूणिकोऽच्छादयत्सैन्यैर्भुवं द्यां च रजोभरैः ।।५२।। (युग्मम्) ततो युतोऽष्टादशभिर्भूपैर्मुकुटधारिभिः । सप्तपञ्चाशत्सहस्र-रथहस्तिहयान्वितः ।।५३।। चेटकोऽप्यभ्यगात्सप्तपञ्चाशत्कोटिपत्तियुक् । स्वदेशसीम्नि सैन्यै च, वार्धिव्यूहमचीकरत् ।।५४।। (युग्मम्) कूणिकोऽप्यागतस्तत्र, तायव्यूहं व्यधाबले । न्यधाच्चमूपतित्वे च, कालं कालमिवोत्कटम् ।।५५ ।। व्यक्तवीरगणोन्मुक्तपृषक्ताच्छादिताम्बरे । आरेभाते रणं भीममुभे अपि ततो बले ।।५६।। निषादिना व्यधायुद्धं, निषादी रथिना रथी । सादिना च समं सादी, पदातिस्तु पदातिना ।।५७।। काली जयार्थमुत्तालः, समं चेटकसेनया । युध्यमानस्तदा राज्ञश्चेटकस्यान्तिके ययौ ।।५८।। दिनं प्रत्येकविशिखमुक्तिसन्धाधरस्ततः । चेटको दिव्यबाणेन तं कृतान्तातिथिं व्यधात् ।।५९।। चंपापतेर्बलं शोकाकुलं द्रष्टुमिवाक्षमः । तदा भानुर्जगामास्तं, विशश्राम ततो रणः ।।६० ।। द्वितीयेऽप्यह्नि सैन्याभ्यामारब्धे संगरे पुनः । महाकालं कूणिकस्य, सेनान्यं चेटकोऽवधीत् ।।६१।। अन्येष्वपि हतेष्वेवं, तेनाष्टस्वष्टभिर्दिनैः । शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ।।६२।। राज्ञोऽस्याऽजानता दिव्यां, शक्तिमेतां हहा मया । मुधैव प्रापिताः कालं, कालाद्या भ्रातरो दश ।।६३।। तदद्यापि सुरं कञ्चिदाराध्यामुं जयाम्यरिम् । नो चेद्भविष्याम्यनुगस्तेषामहमपि द्रुतम् ।।६४ ।। ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् । प्राग्जन्मसंगतौ शक्रचमरेन्द्रावुपेयतुः ।।६५।। किमिच्छसीति जल्पन्तौ, तावित्यूचेऽथ कूणिकः। यदि तुष्टौ युवां सद्यश्चेटको मार्यतां तदा ।।६६।। ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् । करिष्याम्यङ्गरक्षां तु, तव भक्तिवशंवदः ।।६७।। महाशिलाकंटकाह्वरथादिमुशले रणे । चमरेन्द्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ।।६८ ।। तत्राद्ये वैरिषु क्षिप्तावपि कर्करकण्टको । महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ।।६९।। युद्धे द्वितीये तु रथमुशले भ्रमकं विना । भ्राम्यतः परितो वैरिपक्षपेषणतत्परे ।।७०।। ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् । ममंथ वार्चिव्यूहं च, मंथाचल इवोदधिम् ।।७१।।
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org