SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०८ आतुरप्रत्याख्यानप्रकीर्णकम् उर्ध्वीकृत्य कर काश्चिद्बालिकावद्वियत्यधात् । काश्चिदान्दोलयबोलामिव शुण्डां विलोलयन् ।।२४ ।। "किं बहुना" ? यथा यथा प्रोचिरे तास्तस्मै शस्ताय हस्तिने । विभङ्गज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ।।२५।। तच्च प्रेक्ष्याद्भूतं सर्वोऽप्येवं पौरजनो जगौ । राज्यश्रीफलभोक्ताराविमावेव न कूणिकः ।।२६।। तच्च पद्मावती राज्ञी, श्रुत्वा कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिंतयामास चेतसि ।।२७ ।। दिव्यहारादिना गंधहस्तिना चामुना विना । राज्यं न राजते प्राज्यमप्यनाज्यमिवाशनम् ।।२८।। तत् पत्या सर्वमप्येतद्ग्राहयिष्ये बलादपि । ध्यात्वेति सा स्वमाकूतं, रहो राज्ञे न्यवेदयत् ।।२९।। भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् । काकादपि निकृष्टः स्यां, तदलं वार्त्तयानया ।।३०।। निषिद्धापि नृपेणैवं, नाग्रहं तं मुमोच सा । बालानामिव बालानामाग्रहो हि भवेद्बली ।।३१।। प्रपेदे तद्विशामीशस्तत्प्रेमविवशोऽथ सः । अकार्यमपि किं प्रायो, न कुर्वन्ति ? वशावशाः ! ।।३२।। यदुक्तम् “सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्रिया । स्नेहलं दधि मजाति, पश्य मंथानको न किम् ?" ।।३३।। हारादिकं नृपोऽन्येधुर्भ्रातरौ तावयाचत । विहाय दूरतः स्नेहमुन्मत्त इव चीवरम् ।।३४।। तावूचतुस्तातदत्तं, तद्दातुं नार्हमावयोः । तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ।।३५ ।। इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुषोऽवदत् । वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ।।३६।। किं चार्हति ममैवेदं सारं रत्नचतुष्ट्यम् । रत्नानि राजगामिनीत्युच्यते हि जडैरपि ।।३७।। ततस्तद्दीयतां नोचेदग्रहीष्यामि बलादपि । ओमित्युक्त्वा ततो हल्लविहल्लो जग्मतुर्ग्रहम् ।।३८।। दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधाम्नीव, नेह श्रेयांस्तदावयोः ।।३९।। ध्यात्वेत्यादाय हारादि, सर्वं तौ सपरिच्छदौ । चंपायां निशि निर्गत्य, वैशाली जग्मतुः पूरीम् ।।४०।। मातामहाय तौ तत्र, चेटकाय महीभुजे । सर्वं स्वोदंतमावेद्यास्थातां तत्कृतगौरवौ ।।४।। कूणिकस्तूभयभ्रष्टतया चिन्ताञ्चितस्ततः । वैशाल्यां तौ गतौ ज्ञात्वा, प्रेषीदूतं वचस्विनम् ।।४२।। गत्वा दूतोऽपि वैशाली, नत्वा चेटकमित्यवक् । राजन् ! कूणिकराजस्त्वां, मया विज्ञपयत्यदः ।।४३।। गजादिरत्नान्यादायागताविह कुमारको । प्रेषणीयौ द्रुतं पूज्यस्तुल्यैर्मयि तयोस्तथा ।।४४ ।। तौ चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् । नो चेद्वो भविता भूयानायासोऽनुशयावहः ।।४५।। अथेति चेटकोऽवोचढूत ! त्वं ब्रूहि कूणिकम् । तातदत्ता भ्रातृलक्ष्मीर्ग्रहीतुं युज्यते न ते ।।४६।। रक्ष्यन्ते शरणायाताः, किं चान्येऽपि मनस्विभिः । तद्दौहित्रौ कथंकारं, प्रेषणीयाविमौ मया ? ।।४७।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy