SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ खण्ड:-२ दृष्टान्तसमुच्चयः १०७ ४. क्रोधध्याने श्रीमद्भावविजयकृतश्रीउत्तराध्ययनवृत्युक्तं कूलवालकमुनिचरित्रम् । सूरेरेकस्य शिष्योऽभूदविनीतोऽतिरोषणः । चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा ।।१।। दक्षया शिक्षया सूरिस्तथापि तमशिक्षयत् । स तु तामपि मेनेऽन्तर्विषाक्तविशिखोपमाम् ।।२।। हितशिक्षा हि दुष्टानां, नोपकाराय जायते । पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ।।३।। नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् । पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् ।।४।। शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुर्दुतम् । पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे ।।५।। अक्षतांगस्ततः सूरिः, क्रुद्धस्तेन कुकर्मणा । भावी पातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ।।६।। गुरोगिरं मृषाकर्तुं, क्षुल्लः क्षुद्रमतिः स तु । गत्वा निर्मानुषारण्ये, तस्थौ गिरिनदीतटे ।।७।। स तत्रातापनासेवी, तपस्तेपे सुदुस्तपम् । पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ।।८।। अथायातासु वर्षासु, तरुणांबुदकामुकैः । अपूर्यतार्णवानीतैर्नदीवेश्याः पयोधनैः ।।९।। एनं कूलंकषाकूलं, निकषासंस्थितं मुनिम् । मानैषीदंबुपुरोऽब्धि, दुष्टो वाह इवाटवीम् ।।१०।। इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी । कूलवालक इत्यूचुस्ततस्तं संयतं-जनाः ।।११।। (युग्मम्) इतश्च श्रेणिको राजा पुरे राजगृहेऽभवत् । नन्दा च चिल्लणा चास्तां, महिष्यौ तस्य मञ्जुले ।।१२।। तत्राद्यायाः सुतो जज्ञेऽभयोऽन्यस्याः सुनन्दनाः । कूणिकहल्लाविहल्लास्रयोऽभूवन्मनोहराः ।।१३।। कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः । मात्रा सत्राऽभयस्तत्राऽऽददे दीक्षां जिनान्तिके ।।१४।। प्रव्रजती तदा नन्दा, ददौ हल्लविहल्लयोः । कुंडलद्वितयं देवदत्तं क्षौमयुगं तथा ।।१५।। राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः । गंधद्वीपं सेचनकं, हारं च त्रिदशार्पितम् ।।१६।। कूणिकस्ते च कालाद्याः, दुष्टा बद्ध्वाऽन्यदा नृपम् । विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः ।।१७।। राज्यादिकं ददौ हारादिकं तातोऽनयोः स्वयम् । इति राज्यविभागं ते, नादुईल्लाविहल्लयोः ।।१८।। कारास्थ एव पितरि, विषं भुक्त्वान्यदा मृते । सानुतापो रतिं प्राय, पुरे तत्र न कूणिकः ।।१९।। वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् । उवास वासव इव, महद्धिः कूणिको नृपः ।।२०।। हारकुंडलवासोभिर्दिव्यैर्भूषितभूधनौ । गंधद्वीपं तमारूढौ, सान्तःपुरपरिच्छदौ ।।२१।। क्रीडायै प्रत्यहं हल्लविहल्लौ जग्मतुर्नदीम् । तदेति क्रीडयामास, तद्वधूर्गन्धसिन्धुरः ।।२२।। (युग्मम्) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्डयाऽऽदाय सुन्दरीः । काश्चिन्न्यवेशयन्मौलौ, काश्चिद्दन्तान्तरेष्वधात् ।।२३।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy