________________
आतुरप्रत्याख्यानप्रकीर्णकम्
तद्वचः क्षुधितः सोऽङ्गीकृत्य तद्भाण्डभृत्पथि । व्रजन्नश्नंश्च तद्भावभावितात्माऽभवद्भूशम् ।।४।। सौगते शासने प्रीतिमतीव दधतोऽस्य तु । मार्गे यातः समुत्पेदे, रोगोऽसाध्यतमस्तनौ ।।५।। अक्षमः सह सार्थेन, गन्तुं पथि स तस्थिवान् । गैरिकारक्तवस्त्रेणाच्छाद्य तं सौगता गताः ।।६।। सोऽपि दूषितसम्यक्त्वो, रोगतः पञ्चतां गतः । यक्षीभूयावधिज्ञानं प्रायुङ्काव्यक्तचेतनः ||७|| या पूर्वभवे किं किं कृतं सुकृतमद्भुतम् ? । येन प्राप्तेदृशी यक्षपदवी सम्पदोज्ज्वला ।। ८ ।। रक्तेन वाससाच्छन्नं, तदा स स्वकलेवरम् । मार्गे दृष्ट्वा बहिर्दृष्टिर्हद्येवं पर्यभावयत् ।।९।। अनुभावेन भिक्षूणां लब्धा देवश्रियो मया । तन्वेऽहमपि माहात्म्यमतोऽमीषां हि शासने ।। १० ।। वटवासी स यत्रामी, भिक्षवो भुञ्जते मठे । तत्र कङ्कणकेयूर - मुद्राभिर्मण्डितं करम् ।।११।। प्रकटीकृत्य शाक्येभ्यो, ददानो मोदकादिकम् । समस्तं कृतवांल्लोकं, सादरं बौद्धशासने ।। १२ ।। युग्मम् । तत्प्रभावमदोन्मादप्रोल्लण्ठाः शठचेतसः । अपनिन्द्यं तु निन्दन्ति, भिक्षवो जिनशासनम् ।। १३ ।। किमन्यैर्दर्शनैर्लोकाः !, सेवध्वं शाक्यशासनम् । यत्र देवा अपि सदा, सेवाहेवाकशालिनः । । १४ । । एकदा केऽपि सूरीन्द्रा, विद्यासिद्धा वसुन्धराम् । विहरन्तः समाजग्मुरुज्जयिन्यां महौजसः ।। १५ ।। श्राद्धैस्ते बौद्धवृत्तान्तं ज्ञापिता ज्ञानभानवः । प्रैषिषन् शिक्षयित्वेति, गीतार्थौ द्वौ महामुनी । । १६ ।। सौगतानां मठे हस्तो, यदा निर्याति दैवतः । तं विधृत्य स वक्तव्यो, युवाभ्यामुञ्च्चकैरिदम् ।।१७।। अहो बुध्यस्व बुध्यस्व, मा मुह्य गुह्यकोत्तम ! । स्मर पञ्चनमस्कारं, पाथेयं शिववर्त्मनः ।। १८ ।। मठायातौ यती बौद्धैर्निमन्त्र्येतां मदोद्धुरैः । अन्तः प्रविष्टौ तौ हस्तमदाष्ट च विनिर्गतम् ।।१९।। निरुध्य हस्तं तौ व्यक्तमवक्तां गुरुवाचिकम् । तदाऽऽकर्णनतो यक्षः, प्रत्यबुध्यत तत्क्षणात् ।।२०।। अचिन्तयच्च हा धिग्मां, यस्य मे जिनशासने । विज्ञस्यापि कथं मोहोऽ भूमिध्यादृष्टिसङ्गतः ? ।।२१।। आविर्भूय ततो यक्षः, सौगतांस्तदुपासकान् । अपरानप्युवाचोच्चैः, श्रूयतां भो ! वचो मम ।।२२।। अन्ये दर्शनिनः सर्वे मिथ्यारूपाः प्रकीर्त्तिताः । तथ्यमेकं तु विज्ञेयं, श्रीजिनेश्वरशासनम् ।। २३ ।। तद्भो मिथ्यादृशस्त्यक्त्वा, श्रयध्वं जिनशासनम् । यथा करतलक्रोडीस्यात् श्रीः खर्गापवर्गयोः ।।२४।। इत्युदीर्य ततो गत्वा, सूरीन्नत्वाऽतिचारजम् । पापमालोच्य जैनं स मार्गमुद्भाव्य जग्मिवान् ।। २५ । । निपीय केऽपि तद्वाक्यमरन्दं मघुपा इव । श्रीमज्जिनमतोद्याने, जगुरर्हद्गुणावलिम् ।। २६ ।।
१०६
श्रुत्वा सुराष्ट्रावणिजश्चरित्रं, कुलिङ्गिसङ्गं त्यजताशु भव्याः । येन ध्रुवं दर्शनशुद्धिमाप्य, खर्गादिसौख्यैः सुहिता भवेयुः ।। २७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org