________________
खण्ड:-२ दृष्टान्तसमुच्चयः
__ १०५
मदनागमने कश्चित्कालक्षेपो बभूव यः । स तु ज्ञेयो नवोत्पन्नदेवकार्याकुलत्वतः ।।१५७ ।। संयमभ्रष्टचित्तांश्च, युष्मान् बोधयितुं मया । तन्नाट्यं विदधे पूज्यैर्यदृष्टमधुनाऽध्वनि ! ।।१५८ ।। मयैव युष्मदाकूतपरीक्षार्थं परिष्कृताः । षट्कायाह्वा दारकाः षट्, ससाध्वीका विकुर्विताः ।।१५९।। ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् । मयोदपादि सैन्यादिभयं तद्ध्वंसनौषधम् ।।१६० ।। शङ्कातङ्काममुं तस्मात्त्यक्त्वा मोहसमन्वितम् । उन्मार्गगं मनोऽवाप्तसन्मार्गं कुरुताऽऽत्मनः ।।१६१।। किञ्च-“संकंतदिव्चपेमा, विसयपसत्तासमत्तकत्तव्वा । अणहीणमणुअकज्जा, नरभवमसुइं न इंति सुरा ।।१६२।। चत्तारि पंच जोअणसयाई गंधो उ मणुअलोगस्स । उ8 वच्चइ जेणं, न हु देवा तेण आवंति ।।१६३।।" इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः । मदनागमनेप्येतत्कर्मारब्धं किमीदृशम् ? ।।१६४।। अन्यच्च दिव्यनाट्यादिविलोकनकुतूहलात् । कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः ! ।।१६५ ।। युष्माभिरपि तद्दिव्यनाटकाक्षिप्तमानसैः । ऊर्द्धस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहूर्त्तवत् ! ।।१६६ ।। तद्भदन्ताः । विमोहोऽयं, कर्तुं वो नैव युज्यते । कल्पान्तेऽपि किमु क्षीराम्भोधिरुल्लङ्घतेऽवधिम् ? ।।१६७ ।। भवादृशा अपि यदा, कुर्वन्त्येवमनीदृशम् । दृढधर्मा जगति कस्तदाह्यन्यो भविष्यति ? ।।१६८ ।। तद्दुराचरितं सर्वमालोच्येदं महाधियः ! । समाचरत चारित्रं, कर्मकक्षहुताशनम् ।।१६९।। गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः । स सूरिः स्वदुराचारं, भूयो भूयो निनिन्द तम् ! ।।१७० ।। वारं वारं च तं देवमार्याषाढोऽब्रवीदिति । साधु साधु त्वया वत्स !, बोधितोऽहं महामते ! ।।१७१।। अहं हि नरकाध्वानं, प्रपन्नोऽपि स्वकर्मभिः । मोक्षमार्गं त्वयैवाऽथ, प्रापितो भावबन्धुना ।।१७२।। धर्माद्धृष्टस्य मे भूयो, धर्मदानविधायिनः । तवाऽनृणोऽहं नैव स्यां, ब्रवीमि किमतः परम् ? ।।१७३ ।। तं देवमभिनन्द्येति, स्वस्थानमगमद्गुरुः । आलोचितप्रतिक्रान्तस्तपोत्युग्रं चकार च ।।१७४ ।। सुरोऽपि सूरिं नत्वा तं, प्रमोदभरमेदुरः । क्षमयित्वा स्वापराधं, सुरलोकमगात्पुनः ।।१७५ ।। नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परीषहममुं न तथा विधेयम् । सूरिः स एव सहते स्म यथा च पश्चात्सर्वैस्तथा व्रतिवरैः सततं स सह्यः ।।१७६।। ३. कुदर्शनध्याने श्रीसम्यक्त्वसप्ततिटीकायाः सुराष्ट्रश्रावकस्य दृष्टान्तः । देशे श्रीमत्सुराष्ट्रायां, सर्व्वराष्ट्रविभूषणे । कोऽपि सुश्रावको जज्ञे, सम्यग्ज्ञानादितत्त्ववित् ।।१।। दुष्प्रापभिक्षे दुर्भिक्षे, प्रवृत्ते तत्र देवतः । सोऽन्यदा बौद्धसार्थेन, प्रतस्थेऽवन्तिमण्डलम् ।।२।। स शाक्यैरीच्यतान्येधुरस्माकमुपधिं यदि । मार्गे वहसि तत् तुभ्यं, दद्महे भोजनादिकम् ।।३।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org