________________
आतुरप्रत्याख्यानप्रकीर्णकम्
अञ्जिताक्षी भूरिभूषाभूषिता तिलकाङ्किता । शासनोड्डाहकृदुष्टसाध्वि ! त्वं कुत आगता ? ।।१३२ ।। सूरेस्तस्येति वचनं श्रुत्वा रोषभराकुला । सा व्रतिन्यपि निःशङ्कं प्रत्युवाचेति तं द्रुतम् ।।१३३।। रे सूरे ! सर्षपाभानि, परिच्छिद्राणि पश्यसि ? । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ? ।।१३४ ।। किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते । स्वयं सदोषस्तु परं, न शिक्षयितुमर्हति ! ।। १३५ ।। यदि च त्वं मन्यसे स्वं, श्रमणं ब्रह्मचारिणम् । समलेष्टुसुवर्णं सत्क्रियमुग्रविहारिणम् ।।१३६ ।। तदभ्येहि ममाभ्यर्णमुत्कर्णः किं प्रणश्यसि | विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ।।१३७।। तयेत्युड्डाहितः साध्व्या, तूष्णीकः स व्रजन् पुरः । ददर्श सैन्यमागच्छत्, कृतं तेनैव नाकिना ।।१३८ ।। भयोद्भ्रान्तस्ततः सुरिः, सैन्याध्वानं विहाय सः । नश्यन्नपि नृपस्यैव, पुरोगाद्दैवयोगतः ।। १३९।। नृपोऽपि प्रेक्ष्य तं हस्तिस्कन्धादुत्तीर्य चाऽनमत् । आह स्म चाऽहो ! भाग्यं मे, यूयं यदिह वीक्षिताः ! ।।१४०।। तत्कृत्वाऽनुग्रहं स्वामिन्मयीदं मोदकादिकम् । एषणीयं प्रासुकं च गृह्यतां गृह्यतां द्रुतम् ।।१४१ ।। नाऽद्य भोक्ष्येऽहमित्युच्चैर्वदन् सूरिस्तु नाऽऽददे । पात्रस्थो भूषणौघो मा, दृश्यतामिति चिन्तयन् ! ।।१४२।। तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् । ह्रिया न नेति जल्पन्तीं नवोढां रमणो यथा ! ।। १४३ ।। भूभुजा मुहुराकृष्टमपि सूरिः पतद्ग्रहम् । न मुमोच नवोढा. स्त्री, भर्नाकृष्टमिवांशुकम् ! ।।१४४।। ततः प्रसह्य तत्पाणेस्तमाच्छिद्य पतद्ग्रहम् । तत्र यावन्नृपः क्षेप्तुमारेभे मोदकादिकम् ।।१४५।। तावत्स तानलङ्कारान्निरीक्ष्य कुपितो भृशम् ! । तमाचार्यमुवाचैवं, भ्रुकुटीविकटाननः ।।१४६।। अरे पाप त्वया नूनं, पुत्रा व्यापादिता मम । नो चेत्कथममी तेषामलङ्कारास्तवान्तिके ।।१४७।। रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! । यास्यसि त्वं कथं जीवन, व्यापाद्य मम नन्दनान् ? ।।१४८।। श्रुत्वेति भूभृतो भाषां, साध्वसाकुलमानसः । अघोमुखः सोऽनूचानोऽनूचानो ध्यातवानिति ।। १४९।। अहो ! विमूढचित्तेनाऽकार्यमेतत्कृतं मया । यदेतदीयपुत्राणामाददे भूषणव्रजः !।।१५० ।। मत्पातकं च सकलं, ज्ञातं भूस्वामिनाऽमुना । तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ।।१५१।। पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् । इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ।। १५२ ।। अथवा पूर्वमेवेदमविमृश्य व्यधामहम् । तत्संयमसुखं त्यक्तं यन्मया भोगकाम्यया ।। १५३ ।। तत्रैवं चिन्तयत्येव, मायां संहृत्य तां सुरः । आविर्बभूव स्वतनुद्युतिद्योतितदिङ्मुखः ।।१५४।। तमित्यूचे च भवगन् !, सोऽहं शिष्योऽस्मि वः प्रियः । स्वयं निर्याम्य यः पूज्यैरागन्तुं प्रार्थितोऽभवत् ।।१५५।। अहं हि व्रतमाहात्म्यात्सुरोऽभूवं महर्द्धिकः । स्मृत्वा वाक्यं च पूज्यानां, स्ववाग्बद्ध इहाऽऽगमम् ।।१५६।।
For Private & Personal Use Only
१०४
Jain Education International 2010_02
www.jainelibrary.org