________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१०३
तस्य पाल्यां देवकुलमारामं च विधाप्य सः । प्रवर्त्य छागयज्ञं च, मुहुस्तत्र चकार सः ।।१०७ ।। अयं हि धर्मस्त्राणं मे, परलोकं भविष्यति । ध्यायन्निति स यज्ञेषु, छगलानवधीबहून् ।।१०८।। भूदेवः सोऽन्यदा मृत्वा, छागेष्वेवोदपद्यत । सोऽपि छागः क्रमावृद्धि, प्राप्तोऽभूत्पीनभूघनः ।।१०९ ।। यज्ञे हन्तुं नीयमानः, स्वपुत्रैरेव सोऽन्यदा । स्वोपज्ञं तत्तटाकादि, दृष्ट्वा स्वां जातिमस्मरत् ।।११० ।। मयैव कारितमिदं, ममैवाभूद्विपत्तये । निन्दन्नेवं स्वकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः ।।१११।। तथाभूतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः । तत्पूर्वभववृत्तान्तं, विज्ञायैवमवोचत ।।११२ ।। खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः । प्रवर्तिता मखाश्चाऽथ, किं 'बुबू' कुरुषे पशो ! ।।११३।। इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् । स्वकर्मण्युदिते किं हि, पूत्कारैरिति चिन्तयन् ।।११४ ।। तूष्णीकः साधुवाचाऽयमजोऽभूदित्यवेत्य ते । अथाऽपृच्छन् द्विजाः साधुमित्याश्चर्यभराकुलाः ।।११५ ।। किमेष मेषो भगवन्नाकर्ण्य भवतां वचः । तूष्णीकत्वं दधौ नाग, इव मन्त्रवशीकृतः ? ।।११६।। मुनि गौ भवत्तातौ, मृत्वाऽसौ छगलोऽभवत् । दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् ।।११७ ।। ततो दुःखाबुबुध्वानमुच्चैः कुर्वन्मयोदितम् । स्वकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् ।।११८ । । ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो ! । विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः ? ।।११९ ।। साधुरूचे समक्षं वः, प्राग्भवे निहितं स्वयम् । निधिं चेद्दर्शयत्येष, तदा ह्येतद्यथातथम् ।।१२० ।। तदाकर्ण्य निधिस्थानं, दर्शयेत्युदितः सुतैः । छागो गत्वा निधिस्थाने, पादाग्रेणाऽखनद्भुवम् ।।१२१।। ततस्तत्तनयैर्जातप्रत्ययैर्यतिसन्निधौ । स छागो मुमुचे जैनधर्मश्च प्रत्यपद्यत ।।१२२।। धर्मं श्रुत्वा मुनेस्तस्मान्मेषोऽपि प्रतिपद्य सः । विहितानशनः सद्यो, देवभूयमविन्दत ।।१२३।। प्रेत्य मे शरणं भावीत्याशया स द्विजो यथा । तटाकादि व्यधात्तच्च, तस्याशरणतामगात् ।।१२४ ।। एवं मयाऽपि भीतेन, भवन्तः शरणीकृताः । चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ।।१२५।।" इत्थं चतुर्भिराख्यानैर्गुरोस्तेनोदितैरपि । न दुर्भावो न्यवर्त्तिष्टाऽसाध्यो रोग इवौषधैः ।।१२६ ।। ततस्तस्याऽप्यलङ्कारान्, सूरिर्जग्राह पूर्ववत् । लुब्धो जनो हि नो द्रव्यैस्तृप्यत्यब्धिरिवाम्बुभिः ।।१२७ ।। एवं षण्णां कुमाराणामात्तैराभरणव्रजैः । प्रतिग्रहं दुर्विकल्पैरात्मानं च बभार सः ।।१२८ ।। ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे । सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ।।१२९ ।। देवोऽप्येवं परीक्षाभिस्तं प्रणष्टव्रताशयम् । ज्ञात्वैकां व्यकरोत्साध्वीं, तत्सम्यक्त्वं परीक्षितुम् ।।१३० ।। तां च गुर्वीमलङ्कारनिकरैः परिमण्डिताम् । वीक्ष्य सूरिः ससंरम्भारम्भमेवमुवाच सः ।।१३१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org