________________
१०२
आतुरप्रत्याख्यानप्रकीर्णकम
तस्य चासीत्सुता मध्यवयोभूषितभूघना । उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् ।।८२।। अन्यदा तां सुतां वीक्ष्य, रिरंसुः स द्विजोऽभवत् । न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् ।।८३।। तां च कामयमानोऽपि, न सिषेवे स लज्जया। तत्कामस्यानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ।।८४ ।। तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तदङ्गना । अप्राक्षीत्क्षामताहेतुं, सोऽप्याचख्यौ यथातथम् ।।८५।। ततः सा व्यमृशद्दक्षा, यद्येनां नाप्नुयादयम् । तदावश्यं विपद्येत, द्राग् दशां दशमीं गतः ।।८६।। विधायाकार्यमप्येतत्तदेनं जीवयाम्यहम् । निजो भर्ता हि पत्नीभिर्जीवनीयो यथातथा ।।८७।।। सा विचिन्त्येति तं प्रोचे, मा कार्षीरधृतिं प्रिय ! । अहं केनाऽप्युपायेन, करिष्यामि तवेहितम् ।।८८।। तमित्याश्वास्य सा पुत्रीमिति प्रोवाच दम्भिनी । पूर्वं हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाह्यते ।।८९।। कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं व्रजेः । त्वां भोक्तुमुद्यतं तत्राऽऽगतं यक्षं च मानयेः ।।१०।। हे पुत्रि ! तत्रोद्योतं च, मा कार्षीर्यक्षमीक्षितुम् । उद्योते हि कृते यक्षः, सरोषमुपयास्यति ।।९१।। तच्छ्रुत्वा मातृविस्रम्भा, स्वीचक्रे साऽपि तद्वचः । विस्त्रब्धो हि जनोऽकार्यमपि सद्यः प्रपद्यते ! ।।१२।। रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकात् । शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ।।१३।। तन्मात्रा प्रहितो भट्टोऽप्याऽऽगात्तद्यक्षमन्दिरम् । तां चोपभुज्यं नि:शंकं, रतश्रान्तोऽस्वपीत्सुखम् ।।९४ ।। शरावसम्पुटाद्दीपमाविष्कृत्याऽथ कौतुकात् । पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् ।।९५ ।। अहो मया समं माया, मात्राऽपि महती कृता । भर्ता तदयमेवास्तु, मम किं लज्जयाऽधुना ? ।।९६ ।। किञ्च स्वतातमप्येनमपशंकं भजाम्यथ । नर्त्तनोद्युक्तनतक्या, वदनावरणेन किम् ? ।।९७।। सा विमृश्येति पित्राऽपि, समं रेमे यथारुचि । रतश्रान्तौ च तौ सुप्तौ, प्राबुध्येतां प्रगेऽपि न ।।९८ ।। माता तस्यास्ततः कान्तवियोगोदग्रदुःखतः । अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत ।।९९।। उद्गतेऽपि रवौ विश्वं, विश्वं स्पृशति चाऽऽतपे । प्रबुद्धेऽप्यऽखिले लोके, हले ! जागर्ति नो सुखी ।।१०० ।। तत्सवित्रीवचः पूर्वप्रबुद्धा सा तदङ्गजा । श्रुत्वा तदीयभावं चाऽवगम्येत्युत्तरं ददौ ।।१०१।। मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मानयेः । यक्षेण चाहतस्तातस्तदन्यं तातमेषयः ।।१०२।। इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यब्रवीत्पुनः । नव मासान् स्वीयकुक्षौ, कष्टेनाऽधारि या मया ।।१०३।। विण्मूत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना । मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् ।।१०४।।" पूर्ववद्भावनापूर्वमित्युक्तेपि कथानके । तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् ।।१०५ ।। “तथा हि क्वप्यभूद्ग्रामे, विप्रः कोऽपि महाधनः । स च धर्मधिया मूढः, सरोवरमचीखनत् ।।१०६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org