________________
खण्ड:-२ दृष्टान्तसमुच्चयः
१०१
"एकः कोऽपि युवा भूरिबलोऽभूत्पीनभूघनः। वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ।।५७ ।। लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् । याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? ।।५८ ।। सोऽवादीद्यो मरुज्ज्येष्ठाऽऽषाढयोः सौख्यदो भवेत् । स एव बाधतेऽङ्ग मे, जातं हि शरणाद्भयम् ! ।।५९।। आख्यानमित्युदित्वा तद्भावयित्वा च पूर्ववत् । शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीद्गुरुः ।।६० ।। भूयोपि पुरतो बालं, प्राग्वदाभरणैर्भूतम् । स वनस्पतिकायाख्यं, पञ्चमं सूरिरैक्षत ।।६१।। तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ । सोऽपीत्याख्यानमाचख्यौ, स्वाभिख्याख्यानपूर्वकम् ।।६२।। “द्रुमे पुष्पफलाकीणे, क्वापि केऽप्यऽवसन् खगाः । वृक्षो ह्ययं नः शरणमिति विश्रब्धचेतसः ।।६३।। तेषां च वसतां तत्र, निराबाधमथान्यदा । अपत्यानि बहून्यन्तींडं क्रीडन्ति जज्ञिरे ।।६४।। इतश्च तस्य वृक्षस्य, पार्वात्काऽप्युद्गता लता। तं तरुं परिवेष्ट्योच्चैरारुरोह द्रुमोपरि ।।६५ ।। तया च लतयाऽन्येधुर्विलग्य भुजगो महान् । आरुह्य तं द्रुमं तानि, खगापत्यान्यभक्षयत् ।।६६।। ततस्ते विहगाः स्वीयापत्यविध्वंसदुःखिताः । कुर्वन्तस्तुमुलं प्रोच्चैरित्थमाहुर्मुहुर्मिथः ।।६७।। अद्य यावत्सुखं वृक्षे, स्थितमत्रानुपद्रवे । अस्मादेव लतायुक्तादद्याभूच्छरणाद्भयम् ।।६८।।" इत्युदीर्य कथां तस्या, भावं प्राग्वत् प्रकाश्य च । तस्थुषस्तस्य शावस्याऽप्याददे भूषणानि सः ।।६९।। ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् । वीक्ष्य तस्याप्यलङ्कारान्, सोऽभूदाच्छेत्तुमुत्सुक: ।।७० ।। निजामाख्यां समाख्याय, सोऽप्याऽऽख्यानचतुष्ट्यम् । अवादीद्वीन्द्रियादीनां, चतुर्णां तत्र सम्भवात् ।।७१।। "तथा हि नगरे क्वापि, परीते परितोऽरिभिः । भीता बहिस्था मातङ्गा, पुरान्तः प्राविशन् द्रुतम् ।।७२।। तांश्च मध्यस्थितैोकेरन्नादिक्षयभीरुभिः । निष्काश्यमानान्नगराद्विद्विषोऽपीडयन् भृशम् ।।७३।। पुरं नः शरणं भावीत्याशया विशतोऽपि तान् । निरीक्ष्य दुर्दशां प्राप्तास्तदा कोऽपीत्यऽभाषत ।।७४ । । भीताः पौराः कर्षयन्ति, युष्मान्निजन्ति च द्विषः । तत्क्वापि यात मातङ्गा !, जातं शरणतो भयम् ।।७५ ।।" प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके । अमुञ्चति गुरौ बालौ, द्वितीयामब्रवीत्कथाम् ।।७६।। “नगरे क्वाप्यभूद्भूपः, स च दुष्टो निजैर्नरैः । स्वीय एव पुरे चौर्य, सर्वदाऽचीकरदृशम् ।।७७ ।। राज्ञस्तस्य पुरोधास्तु, सर्वं जनमभण्डयत् । खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ।।७८ ।। यत्र राजा स्वयं चौरो, भण्डकश्च पुरोहितः । यात पौराः ! पुरात्तस्माज्जातं हि शरणाद्रयम् ।।७९।।" कथां सोपनयां प्राग्वदिमामूचानमप्यमुम् । नाऽनूचानोऽमुचद्ग्रस्तं, जनं दुष्ट इव ग्रहः !।।८।। ततस्तृतीयमाख्यानं, वक्तुं प्राक़स्त सोऽर्भकः । “तथा हि क्वाप्यभूद्ग्रामे, द्विजन्मा कोऽपि कामुकः ।।८१।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org