SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०० आतुरप्रत्याख्यानप्रकीर्णकम् इत्याद्युक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् । यावन्मोटयितुं लग्नस्तावच्छावः पुनर्जगौ ।।३२।। भगवन्नेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् । सूरिजगाद तब्रूहि, सोप्याख्यत् श्रूयतामिति ।।३३।। ग्रामे क्वापि कुलालोऽभूत्स चान्येधुर्मुदं खनन् । आक्रान्तः पतता खानितटेनेति वचोऽवदत् ।।३४ ।। यत्प्रसादाबलिं भिक्षां, ददे ज्ञातींश्च पोषये । साऽप्याऽऽक्रामति भूमिर्मी, तज्जातं शरणाद्भयम् ! ।।३५ ।। यथा ह्याजीविकामुख्यसौख्यार्थी पृथिवीं श्रितः । वराकः कुम्भकारोऽयं, तयैवोपहतो द्रुतम् ! ।।३६।। भगवन्नहमप्येवं, भीतस्त्वां शरणं श्रितः । त्वं च मुष्णासि मां तद्भीर्ममापि शरणादभूत् ! ।।३७।। तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः । तद्रूषणानि जग्राह, निजग्राह च तां शिशुम् ! ।।३८ । तानशेषानलङ्कारानक्षिपत्स्वप्रतिग्रहे । व्रताद्धृष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् ! ।।३९।। ततः पुरो व्रजन् काञ्चिदतिक्रान्तो वनीं गुरुः । बालकं प्राग्वदद्राक्षीदप्कायाख्यं द्वितीयकम् ।।४०।। तस्मिंस्तस्याऽप्यऽलङ्कारांस्तथैवाऽऽदातुमुद्यते । सोऽप्याऽऽख्याय निजामाख्यामाख्यानं ख्यातवानिति ।।४१ ।। “एकस्तालाचरश्चारुकथाकथनकोविदः । पाटलाह्वोऽभवद्भरिसुभाषितरसहदः ।।४२।। सोऽन्यदा प्रोत्तरन् गङ्गां, नीरपूरैः प्रवाहितः । तीरस्थैर्ददृशे लोकैरित्यूचे च सविस्मयैः ।।४३।। बहुश्रुतं चित्रकथं, गंगा वहति पाटलम् । वाह्यमानाऽस्तु भद्रं ते, ब्रूहि किञ्चित्सुभाषितम् ।।४४ ।। समाकोभयाकर्णिसकर्णस्तज्जनोदितम् । श्लोकमेकमनश्लीलं, पाटलोऽप्येवमब्रवीत् ।।४५।। येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः । तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ! ।।४६।।" कथां प्रोच्येति तद्भावं, चाविष्कृत्य स्थिते शिशौ । कृपां हित्वाऽऽददे सूरिस्तस्याप्याभरणव्रजम् ।।४७।। ततोऽप्यग्रे व्रजस्तेजस्कायिकाख्यं तृतीयकम् । वीक्ष्यार्भकमभूत्सूरिस्तद्भूषाग्रहणोद्यतः ।।४८।। ततः सोऽपि शिशुः प्राग्वत्प्रादुष्कृत्य निजाभिधाम् । इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ।।४९।। "क्वाप्याश्रमे तापसोऽभूत्सर्वदा वह्निपूजकः । तस्योटजेऽनले नैवाऽन्यदा दग्धे स इत्यवक् ।।५०।। यमहं मधुसर्पिभ्‘, तर्पयामि दिवानिशम् । दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! ।।५१।। यद्वारण्यं गतः कश्चिद्वह्निं व्याघ्रभिया निशि । अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ।।५२।। मया हि व्याघ्रभीतेन, पावकः शरणीकृतः ।। दग्धं तेन च गात्रं मे, जातं शरणतो भयम् ।।५३।।" इत्युक्त्वाख्यानकं तस्योपनयं च प्रकाश्य सः । तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ।।५४ ।। ततोऽप्यऽग्रेऽर्भकं वायुकायाख्यं वीक्ष्य पूर्ववत् । लातुं तस्याप्यलङ्कारान्, सूरिरुद्यमवानऽभूत् ।।५५ ।। सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् । आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयनिजम् ।।५६।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy