________________
खण्ड:-२ दृष्टान्तसमुच्चयः
ज्ञानदर्शनचारित्राराधकाः शान्तचेतसः । विहितानशनाः सम्यग्मया निर्यामिताः स्वयम् ।।९।। मद्वाचं प्रतिपत्राश्च, विनेयो मम ये मृताः । स्नेहलेष्वपि तेष्वेको-ऽप्याऽऽगानो कथमन्यथा ? [युग्मम् ।।१०।। तदद्य यावच्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा । भोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! ।।११।। भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः । परलोके ह्यसति कः, क्लिश्यते कुशलो मुधा ! ।।१२।। विमृश्येति स्वलिङ्गस्थ, एव मिथ्यात्वमाश्रितः । उत्प्रव्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययौ ।।१३।। अत्रान्तरेऽवधिज्ञानात्स्वरूपं स्वगुरोरिदम् । ज्ञात्वा दिवं गतः शिष्यो, विषण्णो ध्यातवानिति ! ।।१४।। अहो ! मद्गुरवो जैनागमनेत्रान्विता अपि । विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतमसाकुलाः ! ।।१५।। अहो ! मोहस्य महिमा, जगज्जैत्रो विजृम्भते । जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः ! ।।१६।। कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि । मोहाज्जहाति मर्यादां, कल्पान्तादिव वारिधिः ।।१७।। तन्मोहप्रेरिता यावन्नामी दुष्कर्म कुर्वते । तावदेतान्विबोध्याहं, कुर्वे सन्मार्गमाश्रितान् ! ।।१८ ।। ध्यात्वेत्यागत्य स सुरः, स्वगुरोर्गमनाध्वनि । ग्राममेकं विचक्रे तत्-पार्वे दिव्यं च नाटकम् ।।१९।। ततः स सूरिस्तन्नाट्यं, प्रेक्ष्यमाणो मनोहरम् । ऊर्ध्वं एव हि षण्मासीमासीत्प्राज्यप्रमोदभाक् ।।२०।। शीतातपक्षुधातृष्णाषण्मासतिक्रमश्रमान् । दिव्यानुभावान्नाजासीत्तन्नाट्यं स विलोकयन् ।। २१।। तस्मिन्नृत्येऽथ देवेन, संहते सोऽचलत्पुरः । क्षणमेकं शुभं नाट्यं, दृष्टं दिष्ट्येति भावयन् ।।२२।। स देवोऽथ तदाकूतं, परीक्षितुमलड्कृतान् । षट् जीवकायसंज्ञान् षट्, विदधे बालकान् वने ।।२३।। दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् । इति दध्यौ शिशोरस्याऽलङ्कारानाच्छिनम्यहम् ।।२४ ।। एषां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते । मृगतृष्णाम्बुपानेच्छादेश्या द्रव्यं विना हि सा ।।२५ ।। विमृश्येति स तं क्षीरकण्ठं सोत्कण्ठमब्रवीत् । रे ! मुञ्च मुञ्चालङ्कारान्, बालकः स तु नाऽमुचत् ।।२६ ।। ततो रुष्टः स तं शावं, जग्राह गलकन्दले । सोऽर्भकोऽपि भयोद्भ्रान्तस्तमित्यूचे सगद्गदम् ।।२७ ।। अस्यामटव्यां भीमायां, बिभ्यच्चौराद्युपद्रवात् । पृथ्वीकायिकसंज्ञोऽहमस्मि त्वां शरणं श्रितः ।।२८ ।। अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च शाश्वती । यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ।।२९।। बालं मां दीनतां प्राप्तं, पाहि पाहि प्रभो ! ततः । तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ।।३०।।
यतः-“विहलं जो अवलंबइ, आवइपडिअं च जो समुद्धरइ । सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ।।३१।।"
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org