SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् शृण्वतस्तस्य वैराग्यं, बभूव लघुकर्मणः । सुतामुद्वाह्य केनापि, दत्त्वा तस्मै धनादिकम् ।।१७।। गच्छे कस्मिन् स निष्क्रम्य, योगोद्वहनमाहृतः । कुर्वन्नध्यैष्ट सुस्पष्टमुत्तराध्ययनत्रयम् ।।१८।। पठतोऽसंस्कृताख्यं च, तुर्याध्ययनमञ्जसा । तद् ज्ञानावरणीयाख्यमागात्कर्मोदयं ततः ।।१९।। अधीयानस्य तत्तस्याचामाम्लाभ्यां दिनद्वयम् । नैकोऽप्यालापकोऽस्यागात्कृच्छ्रेणाण्यभियोगतः ।।२०।। ततोऽसौ गुरुभिः प्रोचे, किं तेऽनुज्ञाप्यतामिदम् ? । स प्राह भगवन्नस्य, योगः कीदृग् ? ततो गुरुः ।।२१।। ऊचे यावदिदं नैति, तावदाचाम्लमस्य तु । स स्माह कृतमन्येन, श्रुतेन तपसा च मे ।।२२।। आचाम्लान्यथ सोऽकार्षीद्, द्वादशाब्दी समाहितः । क्षयमापैतकत् कर्म, सुखेनाध्यैष्ठ तच्छ्रुतम् ।।२३।। शेषं चापि श्रुतं क्षिप्रमधीते स्म महामतिः । श्रुतभक्तेरिहामुत्र, सर्वत्र सुखभागभूत् ।।२४।। २. अनाचारध्याने कोङ्कणसाधोः दृष्टान्तः श्रीकल्पसूत्रसुबोधिकाटीकाऽन्तर्गतः । यथा कोऽपि कुङ्कणदेशीयो वणिग् वृद्धत्वे प्रव्रजितः, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो गुरुभिः पृष्टः- ‘एतावद्दीघे कायोत्सर्गे किं चिन्तितम् ?' स प्रत्युवाच-स्वामिन् ! जीवदया चिन्तिता', कथमिति पुनर्गुरुभिः पृष्ट आह- 'पूर्वं गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकमुप्तानि धान्यानि बहून्यभूवन्, इदानीं मम पुत्रास्तु निश्चिन्ता यदि वृक्षनिषूदनं न करिष्यन्ति तदा धान्याऽभावेन वराकाः कथं भविष्यन्ति ?' इति ऋजुत्वात् स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं- 'महाभाग ! दुर्ध्यातं भवता, अहो ! अयुक्तमेतद्यतीनाम्,' इत्युक्ते च मिथ्यादुष्कृतं ददौ ।। २-१४. अनाचारध्याने शङ्काध्याने च देवानामनागमनादुत्प्रव्रजितुकामस्याऽऽषाढसूरेः श्रीमद्भावविजयकृतश्रीउत्तराध्ययन-सूत्रवृत्युक्तकथा । वत्साभूमौ भूरिशिष्यपरिवारा बहुश्रुताः । आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ।।१।। यो यस्तेषां गणे भक्तं, प्रत्याख्याय व्यपद्यत । तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन् ।।२।। देवभावंगतेनाऽऽशु, देयं मे दर्शनं त्वया । इत्युक्तेऽपि बहूनां तैर्नागात्कोऽपि दिवं गतः ।।३।। अथाऽन्यदा स्वशिष्यं ते, निर्याम्यातीव वल्लभम् । एवमुचुः सनिर्बन्धं, गुरवो गद्गदाक्षरम् ।।४।। स्वर्गगतेन भवता, वत्स ! वत्सलचेतसा । अवश्यं दर्शनं देयं त्वामिति प्रार्थये भृशम् ।।५।। मया हि बहुसाधुनामेवमुक्तमभूत्परम् । नाऽऽगात्कोऽपि त्वं तु वत्साऽऽगच्छेः स्नेहममुं स्मरन् ।।६।। तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् । नाययौ प्रथमोत्पन्न-सुरकायैर्विलम्बितः ।।७।। तस्मिन्ननागते सद्यो, विपर्यस्तमना गुरुः । एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! ।।८।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy