________________
खण्डः -२ प्रकीर्णकोक्तदुानाऽन्तर्गतदृष्टान्तसमुच्चयः १. अज्ञानध्यानेऽशकटापितुः सम्प्रदायः सङ्घाचारविधिग्रन्थात् । प्रमाद्यन् सूरिरेकोऽत्र, प्रेत्याभूद् विगतश्रुतः । तत्रोद्यच्छन् स एवाभूत्, पारद्दश्वा श्रुताम्बुधेः ।।१।। तथाहि-एकस्मिन् भ्रातरौ गच्छे, गङ्गाकूलनिवासिनौ । व्रतं जगृहतुः शान्तौ तत्रैकोऽभूद् बहुश्रुतः ।।२।। सूरिर्जज्ञे क्रमेणासौ, शिष्यैः सूत्रार्थमिच्छभिः । सेव्यमानो दिनं सर्वं, विश्रामं नाश्नुते क्वचित् ।।३।। निशायामपि सूत्रार्थचिन्तनपृच्छनादिभिः । नाससाद सुखानिद्रामन्वहं व्यग्रमानसः ।।४।। भ्राता तस्य द्वितीयस्तु, नित्यमास्ते यथासुखम् । तं च पश्यन्नसौ सूरिर्दध्यौ दुर्बुद्धिबाधितः ।।५।। अहो मे बान्धवो धन्यो, योऽयमास्ते सदा सुखी । ज्ञानविज्ञानहीनत्वात्, केनाप्यायास्यते नहि ।।६।। अजाकृपाणकल्पेन, ज्ञानेनाहं त्ववाप्नुयाम् । दुःखं ततोऽत्र केनापि, विदुषा सूदितं ह्यदः ।।७।। मूर्खत्वं हि सखे ! ममापि रुचितं तस्यापि चाष्टौ गुणा,
१-निश्चिन्तो २-बहुभोजनो ३-ऽत्रपमना ४-नक्तंदिवाशायकः । ५-कार्याकार्यविचारणान्धबधिरो ६-मानापमाने समः;
७-प्रायेणाभयवर्जितो ८-दृढवपुर्मूर्खः सुखं जीवति ।।८।। न पुनर्भावयति यथानानाशास्त्रसुभाषितामृतरसैः श्रोतोत्सवं कुर्वतां, येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद् विवेकरहितै भारभूतैर्नरैः ?।।९।। ज्ञानप्रद्वेषतश्चैवं, ज्ञानमाशातयन्नसौ । दुष्टबुद्धिः प्रमादेन, ज्ञानघ्नं कर्म बद्धवान् ।।१०।। ज्ञानाचारातिचारं तमनालोच्य विपद्य च । देवोऽभूद् देवलोकेऽसौ, सञ्चारित्रप्रभावतः ।।११।। च्युत्वाऽऽभीरकुले कस्मिन्, भरतेऽत्र सुतोऽजनि । पितृभ्यामात्मरूपां स, कन्यामुद्वाहितो युवा ।।१२।। तस्यैकदा सुता जज्ञे, सुरूपा भद्रकन्यका । यौवनं प्राप सा यूनां, मनोनयनहारकम् ।।१३।। अनोधुरि निधायैनां, तत्पिता नगरं प्रति । प्रतस्थे सममाभीरैघृतं विक्रेतुमन्यदा ।।१४।। तामेव पश्यतां तेपामनांसि च मनांसि च । उत्पथस्थान्यभज्यन्त, सद्यः प्रस्खल्य कुत्रचित् ।।१५।। विलक्षीभूय संभूय, तैरित्यौच्यत तावता । नाम्नाऽशकटाऽशकटापितेति च मुहुर्मुहः ।।१६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org