________________
खण्डः - १ गा. ७१
स्वरूपतदुच्छेदादिप्रकारवेत्ता इत्यर्थः । तथा धियं बुद्धिं सर्वेषां भव्यानां राति ददातीति धीर इति विशेषणपदम्, तथा विशिष्टं ज्ञानं विज्ञानं विशेषावबोधरूपं केवलज्ञानमित्यर्थः, ज्ञायते इति ज्ञानं सामान्मावबोधरूपं केवलदर्शनमित्यर्थस्ताभ्यां सम्पन्नः संयुक्तः । तथा लोकस्य चतुर्दशरज्ज्वात्मकस्य जन्मादिकल्याणकेषु द्रव्योद्योतेन केवलालोकभावोद्योतेन तु सर्वदाप्युद्योतक लोकोद्योकरः । दिशतु करोतु क्षयं विनाशं सर्वदुरितानां सर्वपापानां कर्मणामित्यर्थः । यदा तु पाठान्तरेण 'वीरो' इति पठ्यते तदा विशेषेण ईरयति प्रेरयति अष्टप्रकारं कर्मेति वीरश्चरमतीर्थकृत् । इदं विशेष्यपदं शेषाणि विशेषणाणि तथैव । अस्मिन् पाठे शास्त्रकाराभिधानमपि गुप्तमुक्तं ज्ञातव्यम् । यतोऽस्यापि प्रकीर्णकस्य वीरभद्र एव साधुः कर्त्ता श्रूयते भक्तपरिज्ञायां तत्कृतायामत्राध्ययनेऽतिदेशकरणादपि ज्ञायतेऽस्यापि स एव कर्त्तेति भावः ।। ७१ ।। इति श्रीधर्मघोषसूरिशिष्यश्रीमहेन्द्रसूरिविरचितवृत्त्यनुसारेणश्रीगच्छेशभट्टारकप्रभुपरमगुरुश्रीसोमसुन्दरसूरिपादैः कृताऽवचूर्णिः समाप्ता । भद्रं भवतु श्रीसङ्घस्य । । छ । ।
।। वैक्रमीये २०६६ तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितञ्चेदं तपागच्छेश श्रीसोमसुन्दरसूरिकृतावचूरियुतं श्रीवीरभद्रगणिप्रणीतं श्रीआतुरप्रत्याख्यानप्रकीर्णकं समाप्तम् ।।
गुण० धिया राजत इति धीरस्तीर्थकृत् जरामरणे वृद्धत्वनिधने वेत्तीति जरामरणवित् तथा धियं बुद्धिं सर्वेषां भव्यानां राति ददातीति धीरः । विशिष्टं ज्ञानं [विज्ञानं ] केवलज्ञानम्, ज्ञायत इति ज्ञानं तदेव सामान्यावबोधरूपं ताभ्यां संपन्नः संयुक्तः । लोकस्य चतुर्दशरज्ज्वात्मकस्योद्योतकरो दिशतु करोतु क्षयं विनाशं सर्वदुरितानां सर्वपापानां सर्वकर्मणामित्यर्थः । । ७१ ।। इति प्रकीर्णावचूरिः श्रीगुणरत्नसूरिकृता ।।
।। वैक्रमीये २०६६ तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितञ्चेदं श्रीगुणरत्नसूरिकृतावचूरिसहितं श्रीवीरभद्रगणिप्रणीतं श्रीआतुरप्रत्याख्यानप्रकीर्णकं समाप्तम् ।।
९१
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org