________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ७१
वृद्धत्वनिधने वेत्तीति जरामरणवित् । तथा धियं बुद्धिं सर्वेषां भव्यानामासामस्त्येन रा ददातीति धीरः । विशिष्टं ज्ञानं केवलज्ञानं विशेषावबोधरूपं ज्ञायत इति ज्ञानम् । तदेव सामान्यायबोधरूपम् [केवलदर्शनम् ] । ताभ्यां सम्पन्नः संयुक्तः । लोकस्य चतुर्दशरज्ज्वात्मकस्योद्योतकरः । दिशतु करोतु क्षयं विनाशं सर्वपापानां सर्वकर्मणामित्यर्थः । यदा तु पाठान्तरेण वीरो इति पठ्यते तदा विशेषेण ईरयति प्रेरयत्यष्टप्रकारकं कर्मेति वीरश्चरमतीर्थकृत् । शेषं तथैव । अस्मिन्पाठे शास्त्रकाराभिधानमपि गुप्तमुक्तं भवति । यतोऽस्यापि प्रकीर्णकस्य वीरभद्रः कर्त्ता श्रूयते । भक्तपरिज्ञायामतिदेशकरणात् सा तु तेन कृतेति व्यक्तमेवास्तीत्यतो ज्ञायतेऽस्याऽपि स एव कर्त्तेति ।। ७१ ।। समाप्तमातुरप्रत्याख्यानविवरणम् ।।छ।।
९०
-
विवरणमेतद्ब्रवता यदि विपरीतं मया किमप्युक्तम् । तन्मयि कृतानुकम्पैर्विचिन्त्य शोध्यं सदा विबुधैः । । १ । । सार्वज्ञशासनलवस्य श्रीधर्मघोषसुगुरोर्जयति प्रसादः ।।छ।।
प्रथितमतिरार्यरक्षितसूरिर्विधिपक्षदेशकः पूर्वम् । शमनिधिरभूदमुष्माद् श्रीजयसिंहसूरिगुरुः । । १ । ।
तत्पट्टोदयगिरिवरभानुः श्रीधर्मघोषसूरीशः । तस्मान्महेन्द्रसूरिर्दूरीकृतकुमतमतिवादः । । २ ।।
श्रीभुवनतुङ्गसूरिस्तस्मात्स्वस्योपकृति कृते चक्रे । विवरणमात्रमिहातुरप्रत्याख्यानप्रकीर्णकस्य || ३ ||
मिथ्या यदत्र भणितं मयका मतिमान्द्यतो महार्थेषु । तन्मय कृतानुकम्पैः शोध्यं विबुधैर्विशेषेण ॥ ४ ॥
।। समाप्तातुरप्रत्याख्यानविवरणप्रशस्तिः ।। ग्रन्थमानं ८५० । । श्रीः । ।
।। वैक्रमीये २०६६ तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितञ्चेदं आञ्चलिकगच्छीयश्रीभुवनतुङ्गसूरिकृतवृत्तिसहितं श्रीवीरभद्रगणिप्रणीतं श्री आतुरप्रत्याख्यानप्रकीर्णकं समाप्तम् ।।
सोम० अथाध्ययनप्रान्ते शास्त्रकारः श्रीजिनाशिषं भणति धिया राजते इति धीरस्तीर्थकृत्, जरा वृद्धत्वं मरणं च निधनं जरा च मरणं च जरामरणे ते वेत्तीति जरामरणवित् जरामरण
Jain Education International 2010_02
For Private & Personal Use Only
-
www.jainelibrary.org