SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. ७०, ७१ सोम0 तथा निष्कषायस्य कषायरहितस्य तथा, दान्तस्येन्द्रिय-नोइन्द्रियदमेन, तथा शूरस्य मोहमल्लजये, व्यवसायिन उद्यमवत आराधनापताकालाभाय, तथा संसारात् परिभीतस्य भवभीरोः प्रत्याख्यानभङ्गदोषदर्शिन इति हृदयम्, एवंविधस्य साधोः प्रत्याख्यानमनशनप्रतिपतिरूपं शुभं शुभायतिफलं भवेत् स्यादित्यर्थः ।।६९।। गुण निष्कषायस्य कषायरहितस्य दान्तस्य इन्द्रियनोइन्द्रियदमेन शूरस्य मोहमल्लजये, व्यवसायिन आराधनापताकालाभाय संसारपरिभीतस्य भवभीरोः, प्रत्याख्यानमनशनप्रतिपत्तिरूपं शुभं भवतु ।।६९।। एयं पच्चक्खाणं जो काही मरणदेसकालम्मि । धीरो अमूढसनो सो गच्छइ उत्तमं ठाणं ।।७०।। एतत्प्रत्याख्यानं यः करिष्यति मरणदेशकाले । धीरोऽमूढसंज्ञः स गच्छत्युत्तमं स्थानम् ।।७०।। भुव० एयं पच्चक्खाणं ति एतदनशनप्रतिपत्तिरूपं प्रत्याख्यानं यः कोऽप्यन्योऽपि करिष्यति । मरणदेशकाले धीरो विद्वान् न मूढा मूर्छिता संज्ञा ज्ञानं यस्य सोऽमूढसंज्ञः संपूर्णज्ञान इत्यर्थः । स गच्छति यात्युत्तमं स्थानं मोक्षस्थानमित्यर्थः ।।७०।। सोम० तथा एतदनशनप्रतिपत्तिरूपं प्रत्याख्यानं यः कोऽप्यन्योऽत्रापि करिष्यति मरणदेशकाले प्रान्तसमये, धीरो विद्वान् न मूढा मूर्छिता संज्ञा ज्ञानं यस्य सोऽमूढसंज्ञः स्पष्टज्ञानः सम्पूर्णज्ञान इत्यर्थः स एवंविधो गच्छति यात्युत्तमं स्थानं मोक्षस्थानमित्यर्थः ।।७०।। गुणः एतत् प्रत्याख्यानमनशनप्रतिपत्तिरूपं यः कोऽप्यन्योऽपि करिष्यति मरणदेशकाले धीरो विद्वान् न मूढा संज्ञा ज्ञानं यस्य स अमूढसंज्ञः संपूर्णज्ञान इत्यर्थः । स गच्छति यात्युत्तमं स्थानं मोक्षस्थानमित्यर्थः ।।७।। धीरो जरमरणविऊ धीरो [वीरो] विनाण-नाणसंपन्नो । लोगस्सुज्जोयगरो दिसउ खयं सव्वदुक्खाणं ।।७१।। धीरो जरामरणवित् धीरो [वीरो] विज्ञानज्ञानसंपनः । लोकस्योद्योतकरो दिशतु क्षयं सर्वदुःखानाम् ।।७१।। भुव० अथ शास्त्रकार आशिषं बिभणिषुराह - धिया राजत इति धीरस्तीर्थकृत् जरामरणे ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy