________________
८८
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ६८, ६९
चिरउसियबंभयारी पप्फोडेऊण सेसयं कम्मं । अणुपुब्बीइ विसुद्धो गच्छइ सिद्धिं धुयकिलेसो ।।६८।। चिरोषितब्रह्मचारी प्रस्फोट्य शेषकं कर्म ।
आनुपूर्व्या विशुद्धो गच्छति सिद्धिं धूतक्लेशः ।।६८।। भुक चिरउसियत्ति प्राकृतत्वाद्विसंधिः । चिरमुषितो ब्रह्मणः चरणं ब्रह्मचारः । चिरोषितो ब्रह्मचारो येन स चिरोषितब्रह्मचारः । चिरोषितः ब्रह्मचारो विद्यते यस्याऽसौ चिरोषितब्रह्मचारी त्वम् । प्रस्फोट्य विधूय शेषकं कर्म क्षिप्तोद्धारितं कर्म ज्ञानावरणादि । अथवा चिरओ सि बंभयारी इति वा पाठः। तदायमर्थः - यत एव विरतोऽसि ब्रह्मचार्यसि अत एव प्रस्फोट्य शेषकं कर्मेति सम्बन्धः । आनुपूर्व्या क्रमेणोत्तरोत्तरगुणस्थानाधिरोहणत: विशुद्धः कर्ममलमुक्तः सन् ।।६८।।
सोम० तथा चिरम् उषितः सेवितः प्राकृतत्वाद्विसन्धिरस्वारलोपश्च चिरोषितो यो ब्रह्मणश्चरणं ब्रह्मचारः स विद्यते यस्याऽसौ चिरोषितब्रह्मचारी । 'चिर उसिबंभयारी' इतिपाठे त्वयमों यत एव विरतोऽसि ब्रह्मचार्यसि त्वम्, अत एव प्रस्फोट्य विधूय शेषकं पूर्वक्षिप्तकर्मभ्य उद्धरितं कर्म ज्ञानावरणादि आनुपूर्व्या क्रमेणोत्तरोत्तरगुणस्थानाधिरोहलक्षणेन विशुद्धः सन् कर्ममलक्षालनतः प्रथमपाठे सामान्यतो जीवः कर्ता गच्छति याति सिद्धिं शिवं धूतक्लेशः क्षिप्तसप्तभयक्लेशः सन्नित्यर्थः । द्वितीयपाठे प्राकृतत्वाद् विभक्तिव्यत्ययं कृत्वा गच्छसि यास्यसि सिद्धिं शिवमिति व्याख्येयम् ।।६८।।।
गुण चिरमुषितो ब्रह्मचारो येन स चिरोषितब्रह्मचारी प्रस्फोट्य विधूय शेषकं पूर्वक्षिप्तोद्धरितं कर्म ज्ञानावरणादि आनुपूर्व्या क्रमेण विशुद्धो कर्ममलक्षालनात् क्षिप्तभयक्लेशः ।।६८ ।।
निक्कसायस्स दंतस्स सरस्स ववसाइणो । संसारपरिभीयस्स पच्चक्खाणं सुहं भवे ।।६९।। निष्कषायस्य दान्तस्य शूरस्य व्यवसायिनः ।
संसारपरिभीतस्य प्रत्याख्यानं शुभं भवेत् ।।६९।। भुवः कषायरहितस्य दान्तस्य इन्द्रियनोइन्द्रियदमेन शूरस्य व्यवसायिन आराधनापताकालाभाय, संसारपरिभीतस्य, भवभीरोः प्रत्याख्यानभङ्गदोषदर्शिनः । प्रत्याख्यानमनशनप्रतिपत्तिरूपं शुभं भवेत् ।।६९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org