SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ खण्डः- १ गा. ६७ भुव तथा शीलयोगात्पुरुषोऽपि शीलः । शीलेनाऽप्यलुप्तसमाचारेण पालितनिजप्रतिज्ञेनाऽपि मर्त्तव्यम् । निःशीलेनाऽपि भ्रष्टप्रतिज्ञेनाऽपि मर्त्तव्यम् । द्वाभ्यामपि भेदाभ्यां मर्त्तव्यम् । खु तस्मादर्थे वरं शीलत्वेन मर्त्तुमित्यर्थः । । ६६ ।। सोम० तथा शीलं सदाचारस्तद्योगात् पुरुषोऽपि शीलः, ततः शीलेनाप्यलुप्तसदाचारेण पालितनिजप्रतिज्ञेनापि मर्त्तव्यम्, निःशीलेनापि भ्रष्टप्रतिज्ञेनाप्यवश्यं मर्त्तव्यम् । द्वाभ्यामपि भेदाभ्यां मर्त्तव्यं ‘खु' तस्मादर्थे वरं शीलत्वेन पालितसदाचारत्वेन मर्त्तुमित्यर्थः ।।६६।। गुण० शीलेनापि अलुप्तसदाचारेण पालितनिजप्रतिज्ञेनापि मर्त्तव्यम् । निःशीलेनापि भ्रष्टप्रतिज्ञेनापि मर्त्तव्यम् । द्वाभ्यामपि भेदाभ्यां मर्त्तव्यम् 'ख' तस्मादर्थे वरं शीलत्वेन मर्त्तुमित्यर्थः ।। ६६ ।। नाणस्स दंसणस्स य सम्मत्तस्स य चरित्तजुत्तस्स । जो काही उवओगं संसारा सो विमुच्चिहिसि ।। ६७ ।। ज्ञानस्य दर्शनस्य च सम्यक्त्वस्य च चारित्रयुक्तस्य । यः करिष्यत्युपयोगं संसारात्स विमोक्ष्यते । । ६७ ।। ८७ भुव इति स्थिरीभूते क्षपके गुरुः सामान्योपदेशं फलद्वारेण गाथापञ्चकेनाह विशेषोपयोगरूपस्य, दर्शनस्य सामान्योपयोगस्य सम्यक्त्वस्य निःशङ्किताद्यष्टप्रकारस्य, चारित्रस्य समितिगुप्तिभेदतोऽष्टभेदस्य यः साधुः काही करिष्यति । उपयोगं सावधानत्वं स मुनिः संसाराद्भवाद्विमोक्ष्यते छुटिष्यतीत्यर्थः ।। ६७ ।। सोम० इत्थं स्थिरीभूते क्षपके गुरुः सामान्यत उपदेशं फलकथनद्वारेण गाथाचतुष्केणाह - ज्ञानस्य विशेषोपयोगरूपस्य दर्शनस्य सामान्योपयोगरूपस्य, सम्यक्त्वस्य निःशङ्किताद्यष्टप्रकारस्य, चारित्रस्य समितिगुप्तिभेदतोऽष्टविधस्य च यः साधुः 'काही' करिष्यति उपयोगं तद्विषय-सावधानत्वमित्यर्थः स मुनिः संसाराद् भवात् विमोक्ष्यते छुटिष्यतीत्यर्थः । । ६७ ।। गुण० इति स्थिरीभूते क्षपके गुरुः सामान्योपदेशं फलद्वारेण गाथापञ्चकेनाह ज्ञानस्य विशेषोपयोगस्य दर्शनस्य सामान्योपयोगस्य सम्यक्त्वस्य निशङ्किताद्यष्टप्रकारस्य चारित्रस्य समितिगुप्तिभेदतोऽष्टभेदस्य यः साधुः करिष्यति उपयोगं सावधानत्वं स मुनिः संसाराद् भवाद् विमोक्ष्यते छुटिष्यतीत्यर्थः । । ६७ ।। Jain Education International 2010_02 For Private & Personal Use Only - ज्ञानस्य www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy