SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ६५, ६६ सोम पुनः क्षपको यथा भावनां भावयति तथाऽऽह - लब्धं प्राप्तमलब्धपूर्वं मयाऽप्राप्तपूर्वं पुराऽस्मिन् भवे परिभ्रमता मया न कदाचिदेवेतदाराधनावस्त्वनुभूतमित्यर्थः । किंविशिष्टम् ? जिनवचने सिद्धान्ते सुष्ठु अतिशयेन भाषितं प्रतिपादितम् । पुनः कथंभूतम् ? अमृतभूतं भूतशब्द उपमार्थे अमृततुल्यं परमपदहेतुत्वाज्जरामरणादिविघातकत्वेन । अथवा जिनवचनसुभाषितं विशेषपदम् । तदपि अलब्धपूर्वं लब्धं अमृतभूतं चेति यत एतल्लब्धं अत एव गृहीतो लब्धः सुगतिमार्गो मोक्षमार्गो मया अतो नाऽहमिदानीं मरणाद्विभेमि । प्राकृतत्वात् पञ्चम्यऽर्थे षष्ठी ।।६४ ।। गुण अथ क्षपको भावनां भावयन्निदमाह - लब्धं प्राप्तमलब्धपूर्वं परस्मिन् भवे परिभ्रमता मया न कदाचिदाराधनावस्तु अनुभूतमित्यर्थः । जिनवचनं सुभाषितम् । अमृतभूतं देवभोज्यतुल्यं गृहीतो लब्धः सुगतिमार्गो मोक्षमार्गः । नाहमिदानीं मरणस्य बिभेमीत्यर्थः ।।६४।। धीरेण वि मरियध्वं, काउरिसेण वि अवस्स मरियव् । दुण्डं पि हु मरियव्वं वरं खु धीरत्तणे मरिउं ।।६५।। धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्त्तव्यम् । द्वयोरपि मर्त्तव्यं वरमेव धीरत्वेन मर्तुम् ।।६५।। भुक तथा धीरेणाऽपि सुभटेन सता मर्त्तव्यम् । निर्धीरेणाऽपि विगतधैर्येण कातरेणाऽपि सता मर्त्तव्यम्। द्वाभ्यामपि प्रकाराभ्यां हु स्फुटं मर्त्तव्यमेव । तस्माद्वरं खु निश्चये धीरत्वेन मर्तुं युक्तमित्यर्थः ।।६५।। सोम० तथा धीरेणाऽपि सुभटेनाऽपि सता मर्त्तव्यं, कापुरूषेणाऽपि विगतधैर्येण कातरेणाऽपि अवश्यं निश्चितं मर्त्तव्यम् । एवं द्वाभ्यामपि प्रकाराभ्यां हु स्फुटं मर्त्तव्यमेव तस्माद्वरं खु निश्चये धीरत्वेन माँ युक्तमित्यर्थः । मरियव्वे इति पाठे मर्त्तव्ये सतीति गम्यम् ।।६५।। गुण तथा धीरेणापि सुभटेनापि मर्त्तव्यं, कातरेणापि मर्त्तव्यम् । द्वाभ्यामपि प्रकाराभ्यां हु स्फुटं मर्त्तव्यमेव तस्माद्वरं खु निश्चये धीरत्वेन मर्तुं युक्तमित्यर्थः ।।५।। सीलेण वि मरियव्वं, निस्सीलेण वि अवस्स मरियव्वं । दोण्हं पि हु मरियव्वं वरं खु सीलत्तणे मरिंउ ।।६६।। शीलवताऽपि मर्त्तव्यं निःशीलेनाप्यवश्यं मर्त्तव्यम् । द्वयोरपि मर्त्तव्यं वरमेव शीलवता मर्तुम् ।।६६।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy