SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. ६४ महाव्रताङ्गीकारात् कृततप:खेदः । द्वितीयं सर्वत्र समितगुप्तत्वात्संयतोऽस्मि प्रतिनिगृहीतेन्द्रियः, अत: ममैवंविधस्य सतः किं प्रतिबन्धेनाहाराभिलाषेण वा किं तत्सर्वमपि व्युत्सृजामि । एतत्समासेन संक्षेपेण भणितमित्यर्थः ।।३।। सोम० अथ स क्षपको विज्ञाताराधनाफलः किं चिन्तयन् सर्वं व्युत्सृजतीत्याह - प्रथमं तावदहं श्रमणः कृतमहाव्रताङ्गीकारो तपः-संसारखेदरूपेण श्रम् च खेदतपसोरिति धात्वन्वर्थेन युक्तः, द्वितीयं सर्वत्र समितगुप्तत्वात् संयतोऽस्मि निगृहीतेन्द्रिय इत्यर्थः, अतो ममैवंविधस्य सतः किं प्रतिबन्धेनाहाराभिलाषेण वा किं ततः सर्वमप्येतद् व्युत्सृजामि त्यजामि । संक्षेपेणैतत् क्षपकभावनास्वरूपं भणितं प्रोक्तमित्यर्थः ।।६३।। गुण एवं विज्ञाताराधनाफल: कया वासनया सर्वं व्युत्सृजतीत्याह - प्रथमं तावदहं श्रमणो महाव्रताङ्गीकारात् कृततपःखेदः । द्वितीयं सर्वत्र समितगुप्तत्वात् संयतोऽस्मि निगृहीतेन्द्रियः । ततः ममैवंविधस्य सतः किं प्रतिबन्धेनाहाराभिलाषेण वा किं तत्सर्वमपि व्युत्सृजामि, एतत्समासेन भणितमित्यर्थः ।।६३।। लद्धं अलद्धपुव्वं जिणवयणं सुभासियं अमयभूयं । गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि ।।६४।। लब्धमलब्धपूर्वं जिनवचनं सुभाषितममृतभूतम् । गृहीतः सुगतिमार्गो नाहं मरणाद्विभेमि ।।६४।। भुवः अथ क्षपको भावनां भावयन्निदमाह - लब्धं प्राप्तमलब्धपूर्वमप्राप्तपूर्वं पुराऽस्मिन् भवे परिभ्रमता मया न कदाचिदाराधनावस्तु अनुभूतमित्यर्थः । किं विशिष्टमित्याह - जिनवचने सिद्धान्ते सुष्टु अतिशयेन भाषितं प्रतिपादितं जिनवचनसुभाषितम् । पुनः कथंभूतम् ? अमृततुल्यम् देवभोज्यतुल्यम् । अथवा जिनवचनसुभाषितमेव विशेष्यपदं तदपि अलब्धपूर्वम् । उक्तञ्च - सुलहा सुरालयसिरी रयणायरमेहलामही सुलहा । निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा ।।१।। तथा अमृतभूतम् अमृततुल्यं परमसुखहेतुत्वाद्वलिपलितजराविघातकत्वाच्च । अत एव च गृहीतो लब्धः सुगतिमार्गो मोक्षमार्गो नाहमिदानीं मरणाद्विभेमीत्यर्थः ।।६४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy