________________
८४
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ६३
कालं कृत्वा सुविहितः सुसाधुः सम्यक् उत्कृष्टतोऽतिशयेन सम्यगाराधनां कृत्वा त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः । एतदुक्तं भवति - यदि परमसमाधानेन कालं करोति सम्यक् ततस्तृतीये भवेऽवश्यं सिद्ध्यति । अत्राह परः उत्कृष्टतोऽष्टभवाभ्यन्तरे सामायिकं प्राप्य सिद्ध्यति इत्येतन्नाप्युत्कृष्टं नाऽपि जघन्यं ततश्च कथं न विरोध: ? इति उच्यते - अनवगाहितसिद्धान्तसद्भावस्यैतद्वचः । यत्पुनरेकैनैव भवेन जघन्यतः सिद्ध्यतीत्युक्तं तद्वऋषभनाराचसंहननमाश्रित्य एतच्चच्छेदपृष्टसंहननमङ्गीकृत्योच्यते । छेदपृष्टसंहननो हि यद्युत्कृष्टाराधनां करोति ततस्तृतीये भवे मोक्षं प्राप्नोति । उत्कृष्टशब्दश्चात्रातिशयार्थे दृष्टः। न तु भवानङ्गीकृत्य, भवाङ्गीकरणे पुनरष्टभिरेवोत्कृष्टतो भवैश्छेदपृष्टसंहननः सिद्ध्यतीति न विरोध इति ।।२।।
सोम० अथाराधकस्य किं फलमित्याह - आराहणा० उत्तमार्थप्रतिपत्त्याऽऽराधनायां वोपयुक्त उद्यतः सावधान इत्यर्थः कालं मरणं कृत्वा सुविहितः सुसाधुः सम्यक् शुद्धभावनोत्कृष्टत उत्कृष्टाराधनाबलात् त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः, यदि परमसमाधिना कालं मरणं निरन्तरमष्टभवाराधनया जघन्यतस्त्वेकभवाराधनयाऽपि सिध्यतीत्युक्तम् । अत्र तु तृतीयभवे सिध्यतीति तदेतन्नाप्युत्कृष्टं नापि जघन्यं ततश्च कथं न विरोधः ? उच्यते - यावदेकैनेव भवेन सिध्यतीत्युक्तं तद् वज्रऋषभनाराचसंहननमाश्रित्य एतच्च सेवार्त्तसंहननमङ्गीकृत्योच्यते सेवार्त्तसंहननो हि यद्युत्कृष्टाराधनां करोति ततस्तृतीये भवे सिध्यतीति उत्कृष्टशब्दश्चातिशयार्थः, आराधनाविशेषणं च दृष्टव्यः न तु भवानङ्गीकृत्य, भवाङ्गीकारे पुनरुकृष्टतोऽष्टभिरेव भवैः सेवार्त्तसंहननः सिध्यतीति न विरोधः ।।६२।।।
गुण आराधकस्य किं फलं - आराधनया उत्तमार्थप्रतिपत्त्या उपयुक्त उद्यतः कालं कृत्वा सुविहितः सुसाधुः सम्यक् उत्कृष्टतोऽतिशयेन सम्यगाराधनां कृत्वा त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः । एतदुक्तं भवति - यदि परमसमाधानेन कालं करोति सम्यक् ततस्तृतीये भवेऽवश्यं सिध्यति ।।६२।।
समणो त्ति अहं पढम, बीयं सव्वत्थ संजओ मि त्ति । सव्वं च वोसिरामि, एयं भणियं समासेणं ।।३।। श्रमण इति अहं प्रथमं द्वितीयं सर्वत्र संयतोऽस्मीति ।
सर्वं च व्युत्सृजामि एतद्भणितं समासेन ।।३।। भुव० एवं विज्ञाताराधनाफलः कया वासनया सर्वं व्युत्सृजतीत्याह - प्रथमं तावदहं श्रमणो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org