________________
खण्ड: - १ गा. ६१, ६२
गाथैकपदरूपे अधीते सति वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति प्राप्नोति नरो मनुष्योऽभीक्ष्णं निरन्तरं तन्मरणं संवेगप्राप्तिरूपं तेन पदेन हेतुना मर्त्तव्यमित्यर्थः ।। ६० ।।
सोम० अत एकस्मिन्नपि यस्मिन् पदेऽङ्गाध्ययनोद्देशगाथापदादिरूपेऽधीते स वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति नरोऽभीक्ष्णं निरन्तरं तन्मरणं संवेगप्राप्तिसुभगम्, तेनैव पदेनाविस्मृतेन सता मर्त्तव्यमित्यर्थः । । ६० ।।
गुण० अत एकस्मिन्नपि यस्मिन्पदे स्थाने एकगाथा - एकपदरूपेऽधीते सति वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति प्राप्नोति नरो मनुष्योऽभीक्ष्णं तन्मरणं ते संवेगप्राप्तिरूपं तेन पदेन हेतुना मर्त्तव्यमित्यर्थः ।।६०।।
ता एगं पि सिलोगं जो पुरिसो मरणदेसकालम्मि । आराहणोवउत्तो चिंतंतोऽऽराहगो होइ ।।६१।।
तदेकमपि श्लोकं यः पुरुषो मरणदेशकाले । आराधनोपयुक्तश्चिन्तयन्नाराधको भवति । । ६१ ।।
८३
भुव० ततः किमित्याह तस्मात्ततो तावत् । एकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारस्मरणरूपं यः पुमान् मरणकाले आराधनोपयुक्तः सन् चिन्तयति । स तं चिन्तयन् स्मरन्नाराधको भवति ।। ६१ ।।
सोम० ततः किमित्याह - ता तस्मादेकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारादिरूपं यः पुमान् मरणदेशकाले आराधनोपयुक्तः सन् चिन्तयति स तं चिन्तयन् स्मरनाराधको भवति । । ६१ ।।
गुण० ततः किमित्याह - तस्मात् तत एकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारस्मरणरूपं यः पुमान् मरणकाले आराधनोपयुक्तः सन् चिन्तयति स तं चिन्तयन् स्मरन्नाराधको भवति । । ६१ । ।
आराहणोवउत्तो कालं काऊण सुविहिओ सम्मं । उक्कोसं तिनि भवे गंतूणं लहइ निव्वाणं ।। ६२ ।।
आराधनोपयुक्तः कालं कृत्वा सुविहितः सम्यक् । उत्कृष्टतस्त्रीन् भवान् गत्वा लभते निर्वाणम् ।। ६२ ।। भुव० अथाराधकस्य किं फलमित्याह
Jain Education International 2010_02
आराधनया उत्तमार्थप्रतिपत्त्या उपयुक्त उद्यतः
For Private & Personal Use Only
www.jainelibrary.org