SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Chapter: - 1 Verse: 61, 62 **Verse 60** When a person studies the words of the Gatha, which are the purpose of studying the Angas, he attains the emotion of liberation, which is the desire for liberation, continuously and constantly. This death is the attainment of emotion, and it is by this means that one should die. **Verse 61** Therefore, even if a person contemplates a single verse, which is the form of a single verse or a single word, at the time of death, he becomes a devotee. **Verse 62** A devotee who has properly spent his time, having become fit for devotion, attains liberation by going to the three excellent states.
Page Text
________________ खण्ड: - १ गा. ६१, ६२ गाथैकपदरूपे अधीते सति वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति प्राप्नोति नरो मनुष्योऽभीक्ष्णं निरन्तरं तन्मरणं संवेगप्राप्तिरूपं तेन पदेन हेतुना मर्त्तव्यमित्यर्थः ।। ६० ।। सोम० अत एकस्मिन्नपि यस्मिन् पदेऽङ्गाध्ययनोद्देशगाथापदादिरूपेऽधीते स वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति नरोऽभीक्ष्णं निरन्तरं तन्मरणं संवेगप्राप्तिसुभगम्, तेनैव पदेनाविस्मृतेन सता मर्त्तव्यमित्यर्थः । । ६० ।। गुण० अत एकस्मिन्नपि यस्मिन्पदे स्थाने एकगाथा - एकपदरूपेऽधीते सति वीतरागमार्गे संवेगं मोक्षाभिलाषरूपं गच्छति प्राप्नोति नरो मनुष्योऽभीक्ष्णं तन्मरणं ते संवेगप्राप्तिरूपं तेन पदेन हेतुना मर्त्तव्यमित्यर्थः ।।६०।। ता एगं पि सिलोगं जो पुरिसो मरणदेसकालम्मि । आराहणोवउत्तो चिंतंतोऽऽराहगो होइ ।।६१।। तदेकमपि श्लोकं यः पुरुषो मरणदेशकाले । आराधनोपयुक्तश्चिन्तयन्नाराधको भवति । । ६१ ।। ८३ भुव० ततः किमित्याह तस्मात्ततो तावत् । एकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारस्मरणरूपं यः पुमान् मरणकाले आराधनोपयुक्तः सन् चिन्तयति । स तं चिन्तयन् स्मरन्नाराधको भवति ।। ६१ ।। सोम० ततः किमित्याह - ता तस्मादेकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारादिरूपं यः पुमान् मरणदेशकाले आराधनोपयुक्तः सन् चिन्तयति स तं चिन्तयन् स्मरनाराधको भवति । । ६१ ।। गुण० ततः किमित्याह - तस्मात् तत एकमपि श्लोकं पञ्चपरमेष्ठिनमस्कारस्मरणरूपं यः पुमान् मरणकाले आराधनोपयुक्तः सन् चिन्तयति स तं चिन्तयन् स्मरन्नाराधको भवति । । ६१ । । आराहणोवउत्तो कालं काऊण सुविहिओ सम्मं । उक्कोसं तिनि भवे गंतूणं लहइ निव्वाणं ।। ६२ ।। आराधनोपयुक्तः कालं कृत्वा सुविहितः सम्यक् । उत्कृष्टतस्त्रीन् भवान् गत्वा लभते निर्वाणम् ।। ६२ ।। भुव० अथाराधकस्य किं फलमित्याह Jain Education International 2010_02 आराधनया उत्तमार्थप्रतिपत्त्या उपयुक्त उद्यतः For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy