________________
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ५९, ६०
न हु तम्मि देसकाले सक्को बारसविहो सुयक्खंधो । सव्वो अणुचिंतेउं धणियं पि समत्थचित्तेणं ।।५९।। नैव तस्मिन् देशकाले शक्यो द्वादशविधः श्रुतस्कन्धः ।
सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ।।५९।। भुवः अथ गुरुभिर्जीवोऽविरहितगुणः कर्त्तव्य इत्युक्तम् । स च श्रुतचिन्तनाद्भवतीति । तच्च कियच्चिन्तनीयमित्याह - न हु नैव तस्मिन् देशकाले पर्यन्तसमये शिथिलीभवत्सु बन्धनेषु स्खलति जिह्वाबले अपयान्त्यां श्रुतिशक्तौ । शक्य: शकनीयो द्वादशविधो द्वादशप्रकारः श्रुतस्कन्धः श्रुतपिण्डो द्वादशाङ्गरूपः सर्वो निरवशेषः । अनुचिन्तयितुं स्मा धणियमत्यर्थमपि समर्थचित्तेन दृढश्रुतिशक्तिनापि ।।५९।।
सोम० अथ जीवो गुरुभिरविरहितगुणः कर्त्तव्य इत्युक्तम्, स च श्रुतचिन्तनादेव भवति, तच्च श्रुतं कियच्चिन्तनीयमित्याह - 'न हु' नैव तस्मिन् देशकाले पर्यन्तसमये शिथिलीभवत्सु बन्धनेषु स्खलति जिह्वाबलेऽपयान्त्यां श्रुतशक्तौ शक्यः शकनीयो द्वादशविधो द्वादशाङ्गरूपः श्रुतस्कन्धः श्रुतपिण्डः सर्वो निरवशेषोऽनुचिन्तयितुं स्मर्तुं 'धणियं' अत्यर्थं समर्थचित्तेन दृढमनःशक्तिवताऽपि ।।५९।। __ गण अविरहितगुणः श्रुतचिन्तनात् भवति तदाह - नैव तस्मिन् देशकाले पर्यन्तसमये शिथिलीभवत्सु बन्धनेषु स्खलति जिह्वाबलेऽपयान्त्यां श्रुतशक्तौ शक्यः शकनीयो द्वादशविधो द्वादशप्रकारः श्रुतस्कन्धः सर्वो निरवशेषोऽनुचिन्तयितुं 'धणियम'त्यर्थमपि समर्थचित्तेन दृढश्रुतशक्तिनापि ।।५९।।
एगम्मि वि जम्मि पए संवेगं वीयरागमग्गम्मि । गच्छइ नरो अभिक्खं तं मरणं तेण मरियव्वं ।।६०।। एकस्मिन्नपि यस्मिन् पदे संवेगं वीतरागमार्गे ।
गच्छति नरोऽभीक्ष्णं तन्मरणं तेन मर्त्तव्यम् ।।६०।। भुव० अत एकस्मिन्नपि यस्मिन्पदे यदेवस्थाने एकाङ्गैकाध्ययनैकोद्देशकैकाधिकारैक
* श्रवणशक्ती इत्यर्थः । स्वाध्यायदृढमूलश्रुतज्ञानबलवताऽपि ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org