SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ खण्ड:-१ गा. ५८ या सङ्कलिका शृङ्खला तां भित्त्वेत्यर्थः' जन्ममरणान्येवारघट्टो जन्ममरणारघट्टस्तं छित्त्वा भवात् संसाराद् वत्स ! मोक्ष्यसे त्वम् । अयं भावः- जन्ममरणारघट्टे संसारिणो जीवाः कर्मराशिबद्धा बलीवर्दवत् सततं भ्रमन्ति, तत्रापि ये प्रमत्तास्सन्तः पर्यटन्ति गुणरूपां मालां भक्त्वा नरकरूपे कूपे निपतन्ति तीव्रदुःखानि च सहन्ते । ये पुनरप्रमत्ता भ्रमन्ति ते गुरुदेशनावृष्टिशोधिताः सन्तो बन्धरहिताः सर्वाङ्गमोक्षकरां सुगतिं प्राप्नुवन्ति एवं त्वमपि मोक्ष्यसे इत्यर्थः ।।५७।। गुण एवं च वत्स ! तव देहत्यागिनः किं भावीत्याह - भित्त्वाऽष्टकर्मसंकलिकाशृखलाम् । जन्ममरणारघट्टे भविनो जीवाः कर्मराशिप्रतिबद्धा बलीवर्दवत् सततं परिभ्रमन्ति । तत्रापि ये केचनापि प्रमत्ताः सन्तः पर्यटन्ति ते गुणमालां भक्त्वा नरककूपे पतन्ति, तीव्रदुःखानि सहन्ति । ये पुनरप्रमता भ्रमन्ति ते गुरुदेशनामोचिता सन्तो बन्धरहिता सर्वांगमोक्षकरां सुगतिं प्राप्नुवन्ति । तमेवंभूतं जन्ममरणारहट्टं छित्त्वा संसारात् वत्स ! मोक्ष्यसे त्वम् ।।५७ ।। एयं (एवं) सव्वुवएसं जिणदिटुं सद्दहामि तिविहेणं । तस-थावरखेमकरं पारं निव्वाणमग्गस्स ।।५८।। एतं (एवं) सर्वोपदेशं जिनदृष्टं श्रद्दधे त्रिविधेन । त्रसस्थावरक्षेमकरं पारं निर्वाणमार्गस्य ।।५८।। भुवः इत्येवं गुरुभिरुपदिष्टे स क्षपकः किं ब्रूते इत्याह - एवं एतं वा सर्वमुपदेशं जिनदृष्टं श्रद्दधे । त्रिविधेन मनोवाक्कायेन । कथंभूतमुपदेशम् ? त्रसस्थावरक्षेमकरं सर्वजीवकल्याणकारि । पुनः कथंभूतम् ? पारं परतीरम्, कस्य ? निर्वाणमार्गस्य मोक्षपथस्येत्यर्थः ।।५८।। सोम0 एवं गुरुभिरूपदिष्टे क्षपकः प्राह - एवं एतं वा युष्मदुपदिष्टं सर्वमुपदेशं जिनदृष्टं श्रद्दधे त्रिविधेन मनोवाक्कायेन । कथम्भूतमुपदेशम् ? त्रसस्थावरक्षेमङ्करं सर्वजीवकल्याणकारि, पुनः कथम्भूतम् ? पारं परतीरम् । कस्य ? निर्वाणमार्गस्य मोक्षपथस्य मोक्षमार्गपारप्रापकं मोक्षदायकमित्यर्थः ।।५८ ।। गुण एवं गुरूपकृते क्षपको वदति - एवं एतं वा सर्वमुपदेशं जिनदृष्टं श्रद्दधे त्रिविधेन मनोवाक्कायेन । कथंभूतमुपदेशम् ? त्रसस्थावरक्षेमकरं सर्वजीवकल्याणकारि, पुनः कथंभूतम् ? पारं परतीरम् कस्य ? निर्वाणमार्गस्य मोक्षपथस्येत्यर्थः ।।५८ ।। JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy