SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आतुरप्रत्याख्यानप्रकीर्णकम् गा. ५७ अविगतचेतनस्त्यजति देहं शरीरमित्यर्थः । यदा न हु तंमीति पाठस्तदायमर्थः, यदि पूर्व बाह्ययोगविरतो न स्यादभ्यन्तरध्यानयोगयुक्तश्च न स्यात्तदा न हु नैव तस्मिन् देशकाले मरणावसरेऽमूढसंज्ञ: सन् देहं शरीरं त्यजेदित्यर्थः ।।५६।। सोम० कथं मोक्षमार्गे एवंविधो जीवः कर्त्तव्य इत्याह - बाह्ययोगैर्बाह्यसम्बन्धगच्छोपकरणादिप्रतिबन्धरूपैविरहितो वियुक्तोऽभ्यन्तरध्यानयोगं “जिणसाहुगुणकित्तण" इत्यादिरूपम, अल्लीणोत्ति आश्रितः स्वात्मा तथा कर्त्तव्य इत्यध्याहारः । यथा तस्मिन् देशकाले तस्मिन्नवसरेऽमूढसंज्ञोऽविगतचेतनः सावधानमना इत्यर्थः, त्यजति देहं शरीरमित्यर्थः । 'न हु तंमि देशकाले' इति क्वचित्पाठस्तत्रायमर्थः यदि पूर्वमेव बाह्ययोगविरतोऽभ्यन्तरध्यानयोगयुक्तश्च स्यात्, तदा 'न हु' नैव तस्मिन् देशकालेऽमूढसंज्ञस्सन् देहं त्यजेदित्यर्थः ।।५६।। गुण कथं मोक्षमार्गे जीवः कर्तव्य इत्याह - बाह्ययोगैर्बाह्यसम्बन्धैर्गच्छोपकरणादिभिर्विरहितो वियुक्तोऽभ्यन्तरध्यानयोगं 'जिणसाधुगुणकित्तण' इत्यादिरूपम्, अल्लीणो आश्रितस्तथा कर्तव्य इत्यध्याहारः । यथा तस्मिन् देशकाले तस्मिन्नवसरेऽमूढसंज्ञ अविगतचेतनस्त्यजति देहम्।।५६।। हंतूण राग-दोसं भित्तूण य अट्ठकम्मसंघायं [संकलि। जम्मण-मरण रहमु छेत्तूण भवा विमुच्चिहिसि ।।५७।। हत्वा रागद्वेषौ भित्त्वा चाष्टकर्मसङ्घातम् [संकलिकाम्।। जन्ममरणारहट्टं छित्त्वा भवाद् विमोक्ष्यसे ।।५७।। भुक एवं च वत्स ! तव देहत्यागिनः किं न भविष्यतीत्याह - हत्वा रागद्वेषौ एकवचनं प्राकृतत्वात् भित्त्वाऽष्टकर्मसंकलिकां शृङ्खलां जम्मणमरणरहट्टंति जन्ममरणान्येवारघट्टो जन्मजरामरणारघट्टस्तत्र जन्ममरणारघट्टे संसारिणो जीवाः कर्मराशिप्रतिबद्धा बलीवर्दवत्सततं परिभ्रमन्ति । तत्रापि ये केचनापि प्रमत्ता: सन्तः पर्यटन्ति ते गुणमालां भङ्क्त्वा नरककूपे निपतन्ति इति तीव्रदुःखानि च सहन्ते ये पुनरप्रमत्ता भ्रमन्ति ते गुरुदेशनावृष्टिमोचिता: सन्तो बन्धरहिताः सर्वाङ्गमोक्षकरां सुगतिं प्राप्नुवन्ति । तमेवंभूतं जन्ममरणारघट्ट छित्त्वा भवात्संसाराद्वत्स ! मोक्ष्यसे त्वमित्यर्थः ।।५७।। सोम0 एवं वत्स ! तव देहत्यागिनः किं भविष्यतीत्याह - हत्वा रागद्वेषौ एकवचनं प्राकृतत्वात् समाहारद्वन्द्ववशाद् वा भित्त्वा चाष्टकर्मसङ्घातम्, 'संकलिअं' इति पाठेऽष्टकर्मरूपा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002562
Book TitleAgam 25 Prakirnak 02 Atur Pratyakhyan Sutra
Original Sutra AuthorVeerbhadra Gani
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2010
Total Pages400
LanguagePrakrit, Sanskrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, F000, & F020
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy