________________
खण्ड:-१ गा. ५६
सोम0 यत एवं ततः किं कर्त्तव्यमिति गुरुरुपदेशमाह - तस्मात् कारणाच्चन्द्रकवेध्यं वामदक्षिणावर्तभ्रमदष्टचक्रारकमध्यनिर्गच्छदूर्ध्वमुखशरप्रयोगतो भूस्थकुण्डकागततैलान्तः . प्रतिबिम्बितगगनस्थाधोमुखपुत्तलिकावामलोचनरूपश्चन्द्रकस्तद्रूपं ऊर्ध्वमुखशरप्रयोगतो वेध्यं राधावेधमित्यर्थः साध्यमित्यध्याहारः, केन ? पुरुषेण, किम्भूतेन ? उद्युक्तेन उद्यमवता सावधानेनत्यर्थः । कथम् ? सकारणं स्वर्गापवर्गादिश्रीलाभहेतोरित्यर्थः यथा राधावेधः सकारणं राज्यादिलाभकृते केनापि साध्यते एवं चन्द्रकवेध्यमिवानशनं सकारणं मोक्षादिलाभकृते सावधानेन साधयितव्यमिति भावः, तत्साधनोपायश्चायमित्याह- जीवो० जीवात्माऽविरहितगुणोऽमुक्तज्ञानदर्शन-चारित्रगुणः कर्त्तव्यः । क्क ? मोक्षमार्गे ज्ञानदर्शनचारित्रतपोरूपे तद्व्यवस्थितो हि चन्द्रवेध्यसमां प्रान्ताराधनां साधयतीत्यर्थः ।।५५।।
गुण यदि अप्रस्तावकारिणामकृताभ्यासानां च दोषस्तस्मात् किं कर्तव्यमिति गुरुपदेशमाह - चन्द्रकवेध्यं वामदक्षिणावर्तभ्रमदष्टचक्रारकमध्यनिर्गच्छदूर्ध्वमुखशरप्रयोगतो भूस्थतैलकुण्डिकातैलान्तःप्रतिबिम्बितगगनस्थाधोमुखपुत्तलिकावामलोचनचन्द्रकवेध्यं राधावेधमित्यर्थः । सकारणं सहेतुकमुद्युक्तेन पुरुषेण साध्यमित्यध्याहारः । यथा चन्द्रकवेध्यं राधावेध्यं सकारणं राज्यादिलाभकृते केनापि सुरेन्द्रदत्तकल्पेन राजपुत्रेण साध्यते एवं त्वयाऽपि चन्द्रकवेध्यमिव चन्द्रकवेध्यमनशनं सकारणं स्वर्गापवर्गकमलालाभकृते उद्युक्तेन सावधानेन साध्यमित्यर्थः । तर्हि कथं साध्यत इत्याह-जीवो० आत्मारूपोऽविरहितगुणोऽमुक्तज्ञानदर्शनचारित्रगुणः कर्तव्यः । क्व ? मोक्ष० मोक्षमार्गे ज्ञानदर्शनचारित्रतपोरूपे तद्व्यवस्थितो हि चन्द्रकवेध्यमाराधनां साधयतीत्यर्थः ।।५५।।
बाहिरजोगविरहिओ अभिंतरझाणजोगमल्लीणो । जह तम्मि देसकाले अमूढसन्नो चयइ देहं ।।५६।। बाह्ययोगविरहितोऽभ्यन्तरध्यानयोगमाश्रितः ।
यथा तस्मिन् देशकालेऽमूढसंज्ञस्त्यजति देहम् ।।५६।। भुवः कथं मोक्षमार्गे जीवो गामयितव्य इत्याह - बाह्ययोगैर्बाह्यसम्बन्धैर्गच्छोपकरणादिभिर्विरहितो वियुक्तः । अभ्यन्तरध्यानयोगं 'जिणसाहुगुणकित्तण' इत्यादिरूपं अल्लीणोत्ति आश्रितस्तथा कर्त्तव्य इत्यध्याहारः । यथा तस्मिन् देशकालेऽमूढसंज्ञः सन् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org