________________
७८
आतुरप्रत्याख्यानप्रकीर्णकम् गा. ५५
सोम0 अथ येऽप्रस्तावेऽपरिकर्मिता वा संलेखनयाऽनशनं प्रतिपद्यन्ते तेषामपायमाह - अकाण्डेऽप्रस्तावेऽनवसरे ये आराधनामनशग्रहणरूपां कुर्वन्ति, तथा चिरं प्रभूतं कालं भावितः संलेखनया परिकर्मित आत्मा यैस्ते चिरभाविताः, तथा ये न एवंविधास्ते [अचिरभाविताः] पुरुषा मरणदेशकाले मरणसमये इत्यर्थः, देशकालशब्देन प्रस्ताव उच्यते । पूर्वं कृतमर्जितं यत् कर्म तस्य परिसमन्ताद् भावना ततः, स्वप्राकृतकर्मविपाकोदयत इत्यर्थः । पश्चात् प्रतिपतन्ति निदानादिकरणेन नन्दिषेणवत् मिथ्यात्वं दुर्गतिं च यान्ति कुरुडोत्कुरुडवत् ।।५४ ।।
गण० अथ येऽप्रस्तावेऽपरिकर्मिता वाऽनशनं प्रतिपद्यन्ते तेषामपायमाह-अप्रस्तावेऽनवसरे आराधनां कुर्वन्ति. । चिरं प्रभूतं कालं भावितः परिकर्मित आत्मा यैस्ते [चिरभाविताः, तथा ये न एवंविधास्ते अचिरभाविता: ।] अचिरभाविया इति अत्र विभक्तिलोपः प्राकृतत्वात् ते कृतानवसराराधनाः पुरुषा मरणदेशकाले मरणसमये पूर्वकृतकर्मपरिभावनातश्च प्राक्तनकर्मविपाकोदयतः । प्रतिपतन्ति निदानानि कुर्वन्ति नन्दिषेणवत् । दुर्गतिं च यान्ति कुरुडोत्कुरुडवत् ।।५४।।
तम्हा चंदगविज्झं सकारणं उज्जुएण पुरिसेणं । जीवो अविरहियगुणो कायव्वो मुक्खमग्गम्मि ।।५५।। तस्माच्चन्द्रकवेध्यं सकारणम् उद्युक्तेन पुरुषेण ।
जीवोऽविरहितगुणः कर्त्तव्यो मोक्षमार्गे ।।५५।। भुक यदि वाऽप्रस्तावकारिणामकृताभ्यासानां दोषस्तस्मात्किं कर्त्तव्यमिति गुरुरुपदेशमाह - तस्माच्चंद्रकवेध्यं वामदक्षिणावर्त्तभ्रमदष्टचक्रारकमध्यनिर्गच्छदर्द्धमुखशरप्रयोगतो भूस्थतैलकुण्डिकातैलान्त:प्रतिबिम्बितगगनस्थाधोमुखपुत्तलिकावामलोचनचन्द्रकवेध्यं राधावेधमित्यर्थः । सकारणं सहेतुकमुद्युक्तेन पुरुषेण साध्यमित्यध्याहारः । यथा चन्द्रकवेध्यं राधावेधं सकारणं राज्यादिलाभकृते केनाऽपि सुरेन्द्रदत्तकल्पेन राजपुत्रेण साध्यते एवं त्वयाऽपि चन्द्रकवेध्यमिव चन्द्रकवेध्यमनशनं सकारणं स्वर्गापवर्गकमलालाभकृते उद्युक्तेन सावधानेन साध्यमित्यर्थः । तर्हि कथं साध्यत इत्याह - "बाहिर जोगविरहिओ अभिंतर" जीवो जीव आत्मा अविरहितगुणोऽमुक्तज्ञानदर्शनचारित्रगुणः कर्त्तव्यः । क्व ? मोक्षमार्गे ज्ञानदर्शनचारित्रतपोरुपे तद्व्यवस्थितो हि चन्द्रकवेध्यमाराधनां साधयतीत्यर्थः ।।५५।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org