________________
खण्ड:-१ गा. ५४
द्वादशमासद्वादशपक्षसंलेखनः । अनिदानो निदानरहितः । ईहिऊण वितळ विचार्य मति तत्कालोत्पन्नां, बुद्धिमुत्तरकालभाविनीं सूक्ष्मार्थपर्यालोचिका पश्चाद्विचारणानन्तरम् । मलितकषायो मर्दितसम्पराय: सन् सद्यो झटिति मरणं पण्डितमरणं प्रतीच्छाम्यझीकरोमीत्यर्थः ।।५३।।
सोम0 अथ भावितगुरूपदेशो विज्ञातविषयविपाकश्च क्षपकश्चिन्तयति पूर्व प्रथमं “चत्तारि विचित्ताई" इत्यादिक्रमेण कृतपरिकर्मा कृतद्वादशवर्ष-द्वादशमास-द्वादशपक्षरूपोत्कृष्ट-मध्यमजघन्यसंलेखनोऽनिदानो निदानरहित 'ऊहिऊण' विचार्य स्वयोग्यताविषयां मतिं तत्कालोत्पन्नां बुद्धिं च तद्विषयामेवोत्तरकालभाविनीं सूक्ष्मार्थपलोचननिपुणाम्, पश्चात् तद्विचारणानन्तरं मलित-कषायो मर्दितसंपरायः सन् सद्यः शीघ्रं मरणं तद्हेतुत्वेनोपचारादनशनं प्रतीच्छाम्यङ्गीकरोमीत्यर्थः ।।५३।।
गुण इति विज्ञातविषयविपाको भावितगुरूपदेशश्च क्षपको यद्भणति तदाह - पूर्व प्रथम "चत्तारि विचित्ता" इत्यादिक्रमेण कृतपरिकर्मा त्ति कृतोकृष्टमध्यमजघन्यद्वादशवर्षद्वादशमासद्वादशपक्षसंलेखनः । अनिदानो निदानरहितः । ईहिऊण वितळ विचार्य मतिं तत्कालोत्पन्नां बुद्धिमुत्तरकालभाविनी पश्चाद्विचारणानन्तरं मलितकषायो मर्दितसम्परायः सन् सद्यो झटिति प्रतीच्छाम्यङ्गीकरोमि ।।५३।।
अक्कंडेऽचिरभाविय ते पुरिसा मरणदेसकालम्मि । पुवकयकम्मपरिभावणाए पच्छा परिवडंति ।।५४।। अकाण्डेऽचिरभावितास्ते पुरुषाः मरणदेशकाले ।
पूर्वकृतकर्मपरिभावनातः पश्चात् प्रतिपतन्ति ।।५४।। भुवः अथ येऽप्रस्तावेऽपरिकर्मिता वाऽनशनं प्रतिपद्यन्ते तेषामपायमाह - अकाण्डेऽप्रस्तावेऽनवसरे ये आराधनां कुर्वन्ति । तथा न चिरं प्रभूतं कालं परिभावितः परिकर्मित आत्मा यैस्ते अचिरभाविताः । विभक्तिलोपः प्राकृतत्वात् । तेऽकृताऽनवसराराधनाः अकृताराधनाः पुरुषा मरणदेशकाले मरणसमये पूर्वकृतकर्मपरिभावनातश्च प्राक्तनकर्मविपाकोदयत: प्रतिपतन्ति [पश्चात्] निदानादि कुर्वन्तीति । नन्दिषेणवत् मिथ्यात्वमपि दुर्गतिं च यान्ति । कुरुडोत्कुरुडवदित्यर्थः ।।५४।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org