________________
८२
ध्यानशतकम
टीका - किञ्च - स्पष्टा ।। १०१।।
जह वा घणसंघाया, खणेण पवणाहया विलिजंति ।
झाणपवणावहूया, तह कम्मघणा विलिजंति ।।१०२।। अर्थलेशः - जह वा गाथा ।। वा अथवा यथा घनसङ्घाताः पवनाहताः क्षणेन विलीयन्ते तथा ध्यानपवनावधूता ध्यानपवनप्रेरिता कर्मघना विलीयन्ते विलयं गच्छन्ति ।।१०४ ।।
दीपिका - यथा वा घनसङ्घाता मेघसमूहा विलीयन्ते तथा कर्मघनाः ।। १०२ ।। अवचूर्णिः - ध्यानपवनावधूताः ।। १०२ ।।
अवचूरिः - जह० ।। [यथा वा धनसङ्घाता मेघौघाः क्षणेन पवनाहता विलयं यान्ति तथा] ध्यानपवनावधूताः कर्मव जीवस्वभावावरणाद् घना विलीयन्ते ।।१०२।। टीका - स्पष्टा ।। १०२ ।।
न कसायसमुत्थेहि य, वाहिजइ माणसेहिं दुक्खेहिं।
ईसाविसायसोगाइएहिं झाणोवगयचित्तो ।। १०३ ।। अर्थलेशः - न कसाय गाथा।। ध्यानसुनिश्चलचित्तो जीवः कषायसमुत्थैर्मानसैः दुःखैर्न बाध्यते न पीड्यते । तथा ध्यानोपगतचित्तो जीव ईर्षाविषादशोकादिभिश्च न बाध्यते ।।१०५ ।।
दीपिका - तथा- ईर्ष्याविषादादिभिश्च ।। १०३ ।।
अवचूर्णिः - इदमन्यदिहलोकफलम् - न बाध्यते न पीड्यते, प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरः ईर्ष्या, विषादः वैक्लव्यम्, आदेहर्षादिग्रहः ।। १०३ ।।
अवचूरिः - किञ्चेदमन्यद् इहलोकप्रतीतमेव ध्यानफलमित्याह - न क० ।। न क्रोधाद्युद्भवैश्च बाध्यते पीड्यते मानसैदुखैः ईर्ष्या-विषाद-शोकादिभिः [मत्सरविशेष ईर्ष्या, विषादो वैक्लव्यम् शोको दैन्यम् आदिशब्दाद् हर्षादिपरिग्रहः, ध्यानोपगतचित्तः] ।।१०३।। टीका - किञ्च लोकप्रतीतमेव ध्यानफलमाह- स्पष्टा ।।१०३ ।।
सीयायवाइएहि य, सारीरेहिं सुबहुप्पगारेहिं ।
झाणसुनिचलचितो न वहिज्जइ निजरापेही ।। १०४।। अर्थलेशः - सीया गाथा ।। ध्यानसुनिश्चलचित्तः साधुः शीतातपादिभिः सुबहुप्रकारैः शारीरैः दुखैर्न व्यथ्यते व्यथां न प्राप्नोति । किं विशिष्टः साधु ? निर्जरापेक्षी कर्मनिर्जरावाञ्छावान् ।।१०६ ।।
दीपिका - शीतातपादिकैः शारीरैर्दुःखैः, अत्र कारणे कार्योपचारः। न विध्यते [बाध्यते],
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org