________________
८३
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः निर्जराया अपेक्षी कर्मक्षयापेक्षकः। ।। १०४ ।। द्वा० १२
अवचूर्णिः - न बाध्यते ध्यानसुखाद्, अथवा न शक्यते चालयितुं निर्जरापेक्षी ।। १०४ ।।
अवचूरिः - सीया० ।। शीतातपादिभिश्चादेः क्षुदादिग्रहः, [शारीरैः सुबहुप्रकारैः ध्यानसुनिश्चलचित्तो] न बाध्यते ध्यानसुखादिति गम्यम् अथवा न शक्यते चालयितुं निर्जरापेक्षी ।।१०४ ।। टीका - स्पष्टा । नवरम् न 'वहिजई' न व्यथ्यते ।। १०४ ।।
इय सव्वगुणाधाणं, दिट्ठादिट्ठसुहसाहणं झाणं ।
सुपसत्थं सद्धेयं, नेयं झेयं च नियंपि ।। १०५ ।। अर्थलेशः - इय गाथा ।। भव्यजीवैर्ध्यानं श्रद्धेयं ज्ञेयं नित्यमपि ध्येयम् । किं विशिष्टं ध्यानम् इति ? पूर्वोक्तप्रकारेण सर्वगुणाधानं सर्वगुणामारोपकं तथा दृष्टादृष्टसुखसाधनं दृष्टानि इहलोकसुखानि राज्यादीनि अदृष्टानि स्वर्गमोक्षादीनि तेषां साधकम्, अपरं सुप्रशस्तम् ।।१०७ ।।
दीपिका - एवं सर्वगुणानामाधानं स्थानम् । श्रद्धेयं नान्यथेति, ज्ञेयं स्वरूपतो ध्येयं चिन्तनीयं क्रियया । एवं च रत्नत्रयमप्याराधितं स्यान्नित्यमपि सदैव, नन्वेवं शेषक्रियालोपः ? न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात् । ततो नास्ति साधूनां क्रिया या आगमानुसारेण क्रियमाणा ध्यानं न स्यादिति ।।१०५ ।।
अवचूर्णिः - उक्तं फलम्, उपसंहरन्नाह - एवं सर्वगुणाधानं ध्येयं नित्यमपि ।। १०५ ।। आह-एवं शेषक्रियालोपः प्राप्नोति, न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात्, नास्ति काचिदसौ क्रिया या आगमानुसारेण क्रियमाणा साधूनां ध्यानं न स्यात् अपि तु ध्यानमेव ।
____ अवचूरिः - उक्तं फलम्, उपसंहरन्नाह - इअ० ।। एवमशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानं सुप्रशस्तकरं तीर्थकरादिभिरासेवितत्वात्, यत एवमतः श्रद्धेयं नान्यथैतदित्यादिभावनया ज्ञातव्यं स्वरूपतः ध्येयमनुचिन्तनीयं क्रियया नित्यमपि ।
आह - एवं शेषक्रियालोपः प्राप्नोति ? न, तदासेवनस्यापि तत्त्वतो ध्यानत्वान्नास्ति काचिदसौ क्रिया या आगमानुसारेण क्रियमाणा साधूनां ध्या]नं न स्यात् ।।१०५ ।। पंचु० ।।१०६ ।। समाप्ता ध्यानशतकावचूरि : ।
___टीका - अथोपसंहरन्नाह- स्पष्टा । एवं तर्हि सर्वक्रियालोप: स्यात्, नैवम्, सर्वस्यापि जिनोक्तायाः क्रियाया ध्यानत्वात् ।। १०५ ।। समाप्तं ध्यानशतम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org