________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः दौर्बल्यम्, तत एव भेदः विदारणं वागादीनां तथा तापादयः कर्मणोऽपि स्युः ध्यायिनः ।।१९।।।
टीका - तापस्ततः शोषस्ततो भेदोऽन्यथात्वं योगानां कायादीनां यथा ध्यानानियतं स्युः दुर्बलिकापुष्पमित्रादेरिव तथा तापशोषभेदाः कर्मणोपि ध्यायिनः स्युः ।। ९९ ।। ।
जह रोगासयसमणं, विसोहणविरेयणोसहविहीहिं ।
तह कम्मामयसमणं, झाणाणसणाइजोगेहिं ।। १००।। अर्थलेशः - जह गाथा ।। यथा वैद्यो विशोषणविरेचनौषधिविधिभिः रोगाशयशमनं क्रियते। तत्र विशोषनं लङ्घनम्, विरेचनं रेचदानम्, औषधिः प्रशधा । एतैप्रकारैवैद्या रोगान् शमयन्तीत्यर्थः। तथा जिनवैद्योपदिष्टैः ध्यानानशनादियोगः कर्मामयशमनं स्यात् ।।१०२।।
दीपिका - यथा रोगाशयस्य रोगनिदानस्य शमनं विशोधनविरेचनौषधादिभिः स्यात् । निदानं हेतुः, विशोधनं लङ्घनम्, तथा काशयस्य कर्मकारणस्य रोगादेः शमनं ध्यानानशनादियोगैः स्यात्। अनशनम् उपवासादिः ।। १०० ।।
अवचूर्णिः - किञ्च- रोगाशयशमनं रोगनिदानचिकित्सा विशोषणविरेचनौषधविधिभिरभोजनादिप्रकारैः, तथा कर्मामयशमनं ध्यानानशनादिभिर्योगैः ।। १०० ।।
अवचूरिः - किञ्च - जह० रोगाशयशमनं रोगनिदानचिकित्सा विसोषण-विरेचनौषधविधिभिः अभोजन-विरेकौषधप्रकारैः तथा कर्मामयशमनं ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहः ।।१०० ।।
टीका- यथा रोगाशयशमनं विशोषणविरेचनौषधविधिभिः, तथा कर्मामयशमनं ध्यानानशनादियोगैस्तपोरूपैः ।। १०० ।।
जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहइ ।
तह कमिंधणममियं, खणेण झाणाणलो डहइ ।।१०१।। अर्थलेशः - जह चिर गाथा ।। यथा अनलोऽग्निः चिरसञ्चितमिन्धनं ध्रुवं शीघ्रं दहति । तथा ध्यानानलः क्षणेन अमितं प्रचुरं कर्मेन्धनं दहति ।।१०३ ।।
दीपिका - 'दुयं' द्रुतं, कर्मेन्धनममितम् ।। १०१।। अवचूर्णिः - किञ्च - कर्मेन्धनममितम् ।। १०१ ।।
अवचूरिः - किञ्च - जह० ।। [यथा चिरसञ्चितमिन्धनमग्निः पवनसहितः द्रुतं दहति तथा दुःखतापहेतुत्वात्] कर्मेन्धन[ममितमनेकभवोपात्तं क्षणेन ध्यानानलः असौ दहति अकर्मीकरोति] ।।१०१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org