SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८० ध्यानशतकम् [शोध्यापनयनशोषान् यथासङ्ख्यमेव साधयन्ति जलाऽनलाऽऽदित्याः ।।९७ ।।] टीका - अमुमर्थं दृष्टान्तैराह - वस्त्रलोहार्द्रक्षितीनां क्रमशो मलकलङ्कपङ्कानां शोध्यपनयनशोषान् जलानलादित्या: साधयन्ति ।। ९७ ।। तह सोज्झाइसमत्था, जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा, कम्ममलकलंकपंकाणं ।। ९८।। अर्थलेशः - तह सो गाथा ।। तथा पूर्वगाथोक्तदृष्टान्तैः ध्यानजलानलसूराः ध्यानमेव जलम्, ध्यानमेवानलोऽग्निः, ध्यानमेवादित्यः । एते जीवाम्बरलोहमहीगतानां जीवा एव अम्बर वस्त्रम्, जीव एव लोहम्, जीव एव मेदिनी पृथ्वी तत्र गतानां स्थितानां कर्ममलकलङ्कपङ्कानां कर्मैव मलः, कम्मैव कलङ्कः किट्टम् कम्मैव पङ्कः कर्दमः एतेषां शुद्धयादिसमर्था भवन्ति। ध्यानजलं जीववस्त्रगतं कर्ममलं शोधयति । जीवलोहगतं कर्मकिट्ट ध्यानाग्निरपनयति। ध्यानसूर्यः जीवपृथ्वीगतं कर्मकद्देमं शोषयति । इति भावार्थः ।।१०० ।। दीपिका - तथा ध्यानजलानलसूर्या जीवाम्बरलोहमेदिनीगतानां कर्ममलकलङ्कपङ्कानां शोध्यादिसमर्थाः शोध्यापनयनशोषसमर्थाः ।। ९८ ।। अवचूर्णिः - शोध्यादिसमर्थाः ध्यानमेव जलानलसूर्याः, कर्मव मलकलङ्कपङ्कास्तेषाम् ।। ९८ । । अवचूरिः - तह० ।। तथा शोध्यादिसमर्था जीवाऽम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः कर्मव मलकलङ्कपङ्कानाम् ।।९८ ।। टीकाः - तथा जीवाम्बरलोहमेदिनीगतानां कर्ममलकलङ्कपङ्कानां ध्यानजलानलसूराः शोध्यादिसमर्था भवन्ति ।। ९८ ।। तावो सोसो भेओ, जोगाणं झाणओ जहा निययं । तह तावसोसभेया, कम्मस्स वि झाइणो नियमा ।।१९।। अर्थलेशः - तावो सो गाथा ।। ध्यायिनो ध्यानकर्तुानतो योगानां मनोवचनकायव्यापाराणां यथा तापं शोषः भेदश्च नियमान् नियतं निश्चितं भवन्ति तथा कर्मणामपि तापशोषभेदाः स्युः ।।१०१।। दीपिका - तापो दुःखम्, शोषः कार्यम्, भेदो विदारणम्, एते ध्यानाद् योगानां कायादीनां यथा स्युस्तथा ध्यायिनः कर्मणोऽपि तापादिकं जायते ।। ९९ ।। अवचूर्णिः - किञ्च - योगानां ध्यानतो यथा नियतमवश्यम्, तापो दुःखम्, तत एव शोषो दौर्बल्यम्, तत एव भेदो विदारणं वागादीनाम्, तथा तापादयः कर्मणोऽपि स्युायिनः ।। ९९।। अवचूरिः - तावो० ।। योगानां ध्यानतो यथा नियतमवश्यम्, तापो दुःखम् तत एव शोषो Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy