SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७९ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अवचूरिः - अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति - आस० ।। [आश्रवद्वाराणि संसारहेतवो यस्मान धर्मशुक्लयोर्भवन्ति संसारकारणानि तस्माद् ध्रुवं धर्मशुक्ले ।।१५।।] __टीका - यद्वा भवविपक्षभूते इमे इत्याह - आश्रवद्वाराणि संसारहेतवः तानि च यन्न धर्मशुक्लयोः स्युः तन संसारकारणे ध्रुवं धर्मशुक्ले ।। ९५ ।। संवरविणिजराओ, मोक्खस्स पहो तवो पहो तासिं । झाणं च पहाणंगं, तवस्स तो मोक्खहेऊ तं ।।१६।। अर्थलेशः - संवर गाथा ।। संवरविनिर्जरे मोक्षस्य पन्था स्यात् । तयोः संवरविनिर्जरयोः पन्था तपो भवति । तपसः प्रधानाङ्गं ध्यानम् अन्तरङ्गतपोमध्ये वर्तमानत्वात् । ततः कारणात् तद् ध्यानं मोक्षहेतुर्भवति ।।१८।। दीपिका - संवरनिर्जरे मोक्षस्य पन्थाः। तयोः संवरनिर्जरयोः पन्थाः तपः, तपसश्च प्रधानाङ्गं ध्यानम्, ततो मोक्षहेतुः ।।९६।। अवचूर्णिः - संसारप्रतिपक्षतया च मोक्षहेतुर्ध्यानमित्याह- तपः पन्थाः तयोः संवरनिर्जरयोः, मोक्षहेतुस्तद् ध्यानम् ।।९६ ।। अवचूरिः - संसारप्रतिपक्षतया च मोक्षहेतुर्ध्यानमित्याह - संव० ।। संवर-निर्जरे मोक्षस्य पन्थाः, तपः पन्थाः तयोः संवरनिर्जरयोः, ध्यानं च प्रधानाङ्गं तपसः, ततो मोक्षहेतुस्तद् ध्यानम् ।।९६।।। टीका - अतो मोक्षहेतुानमित्याह- संवरनिर्जरे मोक्षस्य पथः। तयोश्च तपः पन्थाः । तपसश्च प्रधानाऽङ्ग ध्यानम् । ततो मोक्षहेतुकम् ।। ९६।। अंबरलोहमहीणं, कमसो जह मलकलंकपंकाणं । सोज्झावणयणसोसे, साहेति जलाणलाइच्छा ।।१७।। अर्थलेशः - अंबर गाथा ।। यथा अम्बरलोहमहीनां वस्त्रलोहपृथ्वीनां क्रमशो यथा मलकलङ्कपङ्कानां शुद्ध्यपनयनशोषविधेन जलानलादित्याः साधयन्ति । यथा जलं वस्त्रस्य मलं शोधयति। अनलो अग्नि लोहस्य कलङ्क किट्टम् अपनयति । आदित्यः पृथिव्याः कद्देमं शोषयति। तथा ध्यानदृष्टान्तोऽग्रेतनगाथायां कथयिष्यते ।।१९।।। दीपिका - यथा जलानलादित्या वस्त्रलोहमहीनां क्रमेण मलकलङ्कपकानां शोध्यपनयनशोषान् साधयन्ति । कलङ्कः किट्टः ।। ९७ ।। अवचूर्णिः - अमुमेवार्थं दृष्टान्तैराह - मलकलङ्कपङ्कानां यथासङ्ख्यं शोध्यपनयनशोषान् यथासङ्ख्यमेव साधयन्ति जलानलादित्या: ।। ९७ ।। अवचूरिः - अमुमेवार्थं दृष्टान्तैराह - अंब० ।। वस्त्रलोहार्द्रक्षितीनां क्रमेण यथा मल-कलङ्कपङ्कास्तेषां Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy